________________
शालिकरण
दृष्टान्तः
संज्ञासूत्रादिकाः
सूत्रप्रकाराः
शालिकरणदृष्टान्तः पुनरयम् — यथा कर्षकः शालीन् महता परिश्रमेण निप्पाद्य ततो लबन-मलन - पवनादिप्रक्रियापुरस्सरं कोष्ठागारे प्रक्षिप्य यदि तैः शालिभिः खाद्य-पेयादीनामुपभोगं न करोति ततः शालिसङ्ग्रहस्तस्य फल : सम्पद्यते । अथासौ करोति तैः शालिभिः यथायोगमुपभोगं ततः शालिसङ्ग्रहः सफलो जायते । एवं द्वादशवार्षिके सूत्राध्ययनपरिश्रमे कृतेऽपि 10 यदि तदीयमर्थं न शृणुयात् तदा स सर्वोऽपि परिश्रमो निष्फल एव भवेत् । अर्थे तु श्रुते सम्यगवधारिते च सफलः स्यात् ॥
अत एवाह - उपभोगफलाः शालयः, सूत्रं पुनः 'अर्थकरणफलं' चरण-करणादिरूपसूत्रार्थावरणफलम्, तच्च सूत्रोक्तार्थाचरणं श्रुत एवार्थे भवति नान्यथा ॥ १२१९ ॥ अतः - ज बारस वासाई, सुत्तं गहियं सुणाहि से अहुणा ।
बारस चैव समाओ, अत्थं तो नाहिसि न वा णं ।। १२२० ।।
यदि द्वादश वर्षाणि त्वया सूत्रं गृहीतम्, अतः 'तस्य' सूत्रस्यार्थमधुना द्वादशैव 'समाः ' वर्षाणि शृणु । ततोऽर्थं शृण्वन् स्वज्ञानावास्ककर्मक्षयोपशमानुसारेण ज्ञास्यसि वा न वा "णं" इति 'तं' विवक्षितमर्थम् ॥ १२२० ॥ किञ्च -
३७८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
नीरस ववरं परित्यजति । एवमयमपि गृहवासारघट्टाद् मुक्तः प्रथमं यत् किमपि सूत्रं चारिकल्पं गुरुसकाशादधिगच्छति तत् सर्वमर्थाखादनविरहितं गृह्णाति । ततः सूत्रे गृहीतेऽर्थग्रणं करोति । यदि पुनरर्थं न गृह्णीयात् तदा तत् सूत्रं निराखादमेव सज्जायेत । अर्थे तु श्रुते सम्यक् तदर्थमवबुध्यमानः सन्नसौ यथावदाचरत्युपदेशम् परिहरति बिन्दु - मात्राभेदादिदोषदु5 ष्टान् कचवरकल्पानभिलापानिति ॥
15
सन्नाइसुत्त ससमय, परसमय उस्सग्गमेव अववाए ।
हणा-हिय जिण थेरे, अज्जा काले य वयणाई ।। १२२१ ।।
-
इह मौनीन्द्रप्रवचनेऽनेकधा सूत्राणि भवन्ति । तत्र किञ्चित् संज्ञासूत्रम्, यथा – “जे छेए से सागारियं न सेवे ।" (आचा० श्रु० १ अ० ५ उ० १) यः 'छेक : ' पण्डितः सः 'सागारिक" मैथुनं न सेवेत । अथवा – “सव्वामगंधं परिन्नाय निरामगंधो परिव्वए ।” ( आचा० श्रु० १ अ० २ उ० ५ ) आमम् - अविशोधिकोटिः, गन्धं- विशोधिकोटिः । तथा — “आरं 25 दुगुर्णेणं पारं एगगुणेणं ।" "आरं ' संसारस्तं 'द्विगुणेन' राग-द्वेषयुगलेन 'पारं' निर्वाणं तद् 'एकगुणेन' राग-द्वेषपरिहारलक्षणेन जीवः प्राप्नोतीति गम्यते । आदिग्रहणाद् देशी भाषानियतं सूत्रं गृह्यते, यथा--" - " दिगिंछापरीसहे" (उत्त० अ० २ गद्यसूत्रम् ) । ' दिगिंछा' इति बुभुक्षा || स्वसमयसूत्रं यथा----" करेमि भंते! सामाइयं" ( सामायिकाध्ययनम् ) इत्यादि ॥
20
30
परसमयसूत्रं यथा—
पंच खंधे वयंतेगे, बाला उ खणजोइणो । ( सूत्रकृ० श्रु० १ अ० १ उ० १ ) उत्सर्गसूत्रं यथा—''अभिक्खणं निव्विगई गया य" ( दश० चू० २ गा० ७ ) इत्यादि । अपवादसूत्रं यथा-
तिहमन्नरागस्स, निसिज्जा जम्स कपई ।
जराए अभिभूयस्स, वाहियस्सा तवस्सिणो ॥ ( दश० अ० ६ गा० ५९ )