________________
भाष्यगाथाः १२१३-१९]
प्रथम उद्देशः ।
३७७
वचनविरोध इति; गणधरे वा तदनन्तरं भगवदुक्तानुवादिनि प्रत्ययो भवति भगवद्विषयः श्रोतॄणां यथा नान्यथावादीति । तथा शिष्या - ssचार्यक्रमोऽपि च दर्शितो भवति, आचार्यादुप श्रुत्य योग्यशिष्येण तदुक्तार्थव्याख्यानं कर्त्तव्यम् । एते 'गणधरकथने' गणभृतो धर्मदेशनायां गुणा भवन्तीति ॥ १२१५ || आह स गणधरः क निषण्णः कथयति ? इत्युच्यतेरावणीय सीहासेणोवविट्ठो व पायवीढम्मि ।
5
जो अनयरो वा, गणहारि कहेइ वीयाए ।। १२१६ ।। [ आव. नि. ५८९ ] राज्ञा उपनीते-ढौकिते सिंहासने वा तदभावे भगवतः पादपीठे वा उपविष्टः 'ज्येष्ठः' प्रथम गौतमस्वाम्यादिस्तदभावेऽन्यतरो वा गणं- साध्वादिसमुदायं गुणसमुदयं वा धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुप्यामिति ॥ १२१६ ॥
आह स कथयन् कथं कथयति : इत्युच्यते
संखाईए विभवे, साहइ जं वा परो उ पुच्छिजा ।
न य णं अणाइसेमी. वियाणई एस छउमत्थो ।। १२१ ७ ।। [आव.नि. ५९०] भगवान् गणधरः सङ्ख्यातीतानपि भवान् " साहइ" त्ति कथयति । इदमुक्तं भवतिअसङ्ख्येयेषु भवेषु यद् बभूव भविष्यति वा तत् सर्वमपि कथयति । 'यद् वा' वस्तुजातं दुरवगममपि परः पृच्छेत् तदशेषमपि कथयतीति, अनेनाऽशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह । 15 किं बहुना ? 'न च' नैव "णं" इति तं गणधरम् 'अनतिशयी' अवधि - मनः पर्यायाद्यतिशयरहितो विजानाति यथा 'एषः ' गणधर : छद्मस्थः, किन्तु निःशेषप्रश्नोत्तरदानसमर्थतया सर्वज्ञोऽयमिति मन्यत इति भावः ॥ १२१७ ॥
एवं तावत् समवसरणवक्तव्यता प्रसङ्गत उक्ता । अथ प्रकृतयोजनामाहतित्थयरस्स समीवे, वक्खेवो तत्थ एवमाईहिं ।
सुरगणं ताहे, करेइ सो बारस समाओ ॥ १२१८ ॥
तीर्थकरस्य समीपे ‘तत्र' समवसरणे एवमादिभिः प्रकारैरध्ययनस्य व्याक्षेपो भवतीत्युक्ते स शिष्यः प्राह – 'भगवन् ! सत्यमेवैतद् यद् आदिशत यूयं अत इहैव पठामि' इत्युक्त्वा सूत्रयहणं द्वादश 'समाः' वर्षाणि करोति, द्वादशभिर्वर्षेः सकलस्यापि सूत्रस्याध्ययनं विदधातीत्यर्थः ॥ १२१८ ॥ गतं शिक्षापदद्वारम् । अथार्थग्रहणद्वारं विवरीषुराह -
10
सुत्तम्मिय गहियम्मी, दिट्ठतो गोण-सालिकरणेणं । उवभोगफला साली, सुत्तं पुण अत्थकरणफलं ।। १२१९ ॥
सूत्रे गृहीते सति अवश्यं तस्यार्थः श्रोतव्यः । किं कारणम् ? इति चेद् उच्यते — दृष्टान्तोऽत्र 'गवा' बलीवर्देन 'शालिकरणेन च' शालिक्षेत्रेण ।
20
25
अर्थग्रहण
द्वारम्
तत्र गोदृष्टान्तो यथा —— कश्चिद् बलीवर्दः सकलमपि दिवस वाहयित्वा हलाद् अरघट्टाद् 30 गोदृष्टान्तः वा मुक्तः सन् सुन्दरामसुन्दरां वा चारिं यां प्राप्नोति तां सर्वामनावाद्रयन् चरत्येव । पश्चाद् प्रातः सन्नुपविश्य प्राक् चीर्णं रोमन्थायते, रोमन्थायमानश्च तदास्वादमुपलभते, ततोऽसौ १ 'सणे व विट्ठो मो० ले० ॥