SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ वयवाः अस्फुटिताः-राजीरहिताः, "फलकसरिताणं" फलकवीनितानाम् , एवम्भूतानां तन्दुलानां बलिः क्रियते । सुरा अपि च 'तत्रैव' बलौ प्रक्षिपन्ति गन्धादीनिति ॥ १२१२ ॥ गतं देवमाल्यद्वारम् । अथ माल्यानयनद्वारम् । तमित्थं तन्दुलाढकपरिमाणं सिद्धं बलिमुपादाय राजादिस्त्रिदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपि दिध्मण्डलमापूरयन्नागत्य 5 पूर्वद्वारेण प्रवेशयति । आह च चूर्णिकृत्-- तं आढगं तंदुलाणं सिद्धं देवमलं राया व रायमच्चो वा पउरं वा गामो वा जणवओ वा गहाय महयातूरियरवेणं देवपरिवुडो पुरच्छिमिल्लेणं दारेणं पविसइ त्ति । ___ तस्मिंश्च प्रवेश्यमाने भगवानपि धर्मदेशनामुपसंहरतीति । आह च बलिपविसणसमकालं, पुबद्दारेण ठाइ परिकहणा । 10. तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ॥ १२१३ ॥ [आव.नि. ५८६) _पूर्वद्वारेण बलिप्रवेशनसमकालं तिष्ठति' उपरमते 'परिकथना' धर्मकथा । ततश्च स राजादिः प्रविश्य बलिव्यग्रहस्तो भगवन्तं त्रिःप्रदक्षिणीकृत्य बलिं तत्पादान्तिके पुरतः पातयति । तस्य चार्द्धमपतितमेव देवा गृह्णन्ति ॥ १२१३ ॥ अद्धद्धं अहिवइणो, तदद्ध मो होइ पागयजणस्स । सव्वामयप्पसमणी, कुप्पइ नऽन्नो य छम्मासे ॥ १२१४ ॥ आव.नि. ५८७) देवगृहीतोद्वरितस्यार्द्धस्यार्द्धमधिपतेर्भवति, राजादेर्बलिखामिन इत्यर्थः । तदर्द्ध' चतुर्भागलक्षणं 'मो' पादपूरणे यद् बलेरास्ते तद् भवति 'प्राकृतजनस्य' प्रकृतिषु भवः प्राकृतो जनस्तस्य, इतरलोकस्येत्यर्थः । तस्य चायं प्रभावः-~-यदि तत एकमपि सित्थं शिरसि प्रक्षिप्यते ततः पूर्वोत्पन्नो रोगः सपदि विलीयते, अपूर्वश्च षण्मासान् यावन्न प्रादुर्भवतीति । आह च-'सर्वामयप्रशमनः' 20 सर्वरोगोपशमनोऽयं बलिः, गाथायां प्राकृतत्वात् स्त्रीत्वम् , कुप्यति न 'अन्यश्च' अपूर्वो रोगः षण्मासान् यावदिति ॥ १२१४ ॥ गतं माल्यानयनद्वारम् । अपरे त्वनन्तरोक्तं द्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते तथाप्यविरोधः । इत्थं बलौ प्रक्षिप्ते भगवानुत्थाय प्रथमप्राकारान्तरादुत्तरद्वारेण निर्गत्य पूर्वस्यां दिशि स्फटिकमये देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते । अथ 'उपरि तीर्थम्' इति द्वारम्-भगवत्यु25 त्थिते उपरि-द्वितीयपौरुप्यां तीर्थ-प्रथमगणधरोऽपरो वा धर्ममाचष्टे । आह भगवानेव किमिति नाचष्टे ? किं तत्कथने केऽपि गुणाः सन्ति ? उच्यते, सन्तीति ब्रूमः । के पुनस्ते ? इत्याह खेयविणोओ सीसगुणदीवणा पञ्चओ उभयओ वि।। सीसा-ऽऽयरियकमो वि य, गणहरकहणे गुणा होति ।। १२१५ ।। [आव.नि. ५८८] भगवतः खेदविनोदो भवति, परिश्रमविश्राम इत्यर्थः । तथा 'अहो ! अस्य भगवतः शिप्या 30 अप्येवंविधव्याख्यानलब्धिमन्तः' इति शिप्यगुणदीपना कृता भवति । प्रत्ययश्चोभयतोऽपि श्रोतणामुपजायते, यथा भगवताऽभ्यधायि तथा गणधरोऽप्यभिधत्ते, न शिष्या-ऽऽचार्ययोः परस्परं १ "पच्चयो उभयतो वि ति गिहत्थाण य पव्वइयाण य, जारिसयं तित्थयरो कति तारिस सिस्सो वि कधेति: अधवा पचयो उभयतो वि त्तिन शिष्याचार्ययोः परस्परविरुद्धं वचनम्" इति
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy