________________
भाष्यगाथाः ११९८-१२०५] प्रथम उद्देशः ।
३७३ स्यैकैकं संशयं परिपाट्या व्यवच्छिन्द्यात् ततः को दोषः स्यात् ? इत्याह
कालेण असंखेण वि, संखाईयाण संसईणं तु ।
मा संसयवांच्छित्ती, न होज कमवागरणदोसा ।। १२०२ ।। [आव.नि. ५७५] कालेन 'असङ्ख्येयेनापि' पल्योपमादिना सङ्ख्यातीतानां संशयिनां संशयव्यवच्छित्तिः क्रमव्याकरणदोषाद् न भवेत् , अंत एतद् मा भूदिति भगवान् युगपद् व्यागृणातीति ॥ १२०२ ॥5 अथ युगपद्ध्याकरणे गुणानाह
सव्वत्थ अविसमत्तं, रिद्धिविसेसो अकालहरणं च
सव्वन्नुपच्चओ वि य, अचिंतगुणभूइओ जुगवं ॥ १२०३॥ [आव.नि. ५७६] 'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं' युगपन्निर्वचनेन तुल्यत्वं भगवतो भवति, राग-द्वेषरहितस्य तुल्यकालसंशयिनां युगपजिज्ञासतां कालभेदेन कथने राग-द्वेषगोचरचित्तवृत्तिसम्भावनाप्रसङ्गात् । 10 ऋद्धिविशेषश्चायं भगवतः, यद् युगपत् सर्वसंशयिनामशेषसंशयव्यवच्छित्तिं करोति । तथा परिपाट्या कथने कस्यापि संशयिनोऽनिवृत्तसंशयस्यैव कालेन-मृत्युना हरणं स्यात् , अतोऽकालहरणं युगपनिर्वचने भवति । तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्थमेव भवति, क्रमव्याकरणे तु कस्यचिदनपनीतसंशयस्य सर्वज्ञप्रतीतिरपि न स्यात् । तथा अचिन्त्या-अप्रमेया गुणभूतिः-गुणसम्पदियं भगवतः, यदेकहेलयैव सर्वेषामपि संशयव्यपनयनम् । एतैः कारणैभगवान् युगपत् ।। कथयतीति ॥ १२०३ ॥ गतं व्याकरणद्वारम् । अथ श्रोतृपरिणामद्वारम् । तत्र यथा सा पारमेश्वरी वाग् अशेषसंशयोन्मूलनेन परिणमते तथा प्रतिपादयन्नाह
वासोदगस्स व जहा, वन्नादी होति भायणविसेसा ।
सव्वेसि पि सभासं, जिणभासा परिणमे एवं ॥ १२०४ ॥ [आव.नि. ५७७] 'वर्षोदकस्य' वृष्टिपानीयस्य वाशब्दाद् अन्यस्य वा यथैकरूपस्य सतः 'वर्णादयः' वर्ण-गन्ध- 20 रस स्पर्शाः 'भाजनविशेषाद्' भूमिकाद्याधारविशेषाद् विचित्रा भवन्ति । यथा कृष्ण-सुरभिमृत्तिकायां वर्षोदकं पतितं स्वच्छं सुगन्धं सरसं च भवति, ऊपरभूमिकायां विपरीतम् ; एवं सर्वेषामपि श्रोतृणां स्वस्खभाषां प्रति 'जिनभाषा' जैनी वाणी परिणमते । उक्तञ्च परमर्षिभिः
सा वि य णं भगवओ अद्धमागहा भासा भासिज्जमाणी तेसिं सव्वेसिं आयरियमणायरियाणं दुपय-चउप्पय-मिय-पसु-पक्खि-सिरीसिवाणं अप्पप्पणो भासत्ताए परिणमइ ॥ ( समवायाङ्गे ३४ 25 समवाये)॥
॥१२०४ ॥ भगवद्वाच एव सौभाग्यगुणप्रतिपादनायाहसाहारणा-ऽसवत्ते, तओवओगो उ गाहगगिराए ।
न य निविजड़ माया, किाढवाणियदाासआहरणा ।। १२०५ ॥ [आव.नि. ५७८] 'साधारणा' सर्वसंज्ञिनां भाषासु सामान्या; यद्वा क्षीर-खण्डादीनि मधुरद्रव्याण्येकत्र मीलितानि यथा सुखादुतया साधारणानि भवन्ति एवमसावप्यतीवसुस्वादुतया साधारणा; नरकादो पततो वा 30 जन्तून् या सम्यग् धारयति साधारं-परित्राणं करोतीति साधारणा । 'असपत्ना' अनन्यसदृशी, यस्या वा अपरवाग्भिाघातो न क्रियते । ग्राहिका-अर्थपरिच्छेदकारिणी सा चासौ गीश्च १ अतो भग' भा० ॥ २ °यति सा साधारणा भा० त० डे० कां० ॥