SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३७४ सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ग्राहकगीः । एवंविधायां तस्यामुपयोगः - एकाग्रता तदुपयोगः, तुशब्दस्यावधारणार्थत्वात् तदुप योग एव श्रोतुर्भवति, नानुपयोगो न चान्यत्रोपयोग इति । उपयोगे सत्यप्यन्यत्र निर्वेददर्शनात् तस्यामपि निर्वेदः स्यादित्याह - न च निर्विद्यते श्रोता भागवतीं वाचं शृण्वन् । कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह--- किढिवाणिजदास्युदाहरणात् 5 एगस्स वाणियगस्स किढी दासी किढी थेरी । सा गोसे कट्टाणं गया । तण्हा - छुहाकिलंता मज्झण्हे आगता । ‘अतिथेवा कट्टा आणिय' त्ति पिट्टित्ता भुक्खिय-तिसिया पुणो पट्टविया । सा य वड्डुं कट्टभारं गहाय ओगाहंतीए पच्छिमार पोरिसीए आगच्छइ । को कालो ? जेट्ठामूलमासो । अह ताए य थेरीए कट्टभाराओ एवं कट्टं पडियं । ताए ओणमित्ता तं गहियं । तंसमयं च भगवं तित्थगरो धम्मं कहियाइओ जोयणनीहारिणा सरेणं । सा थेरी तं सद्दं सुर्णेती 10 तहेव ओणया सोउमादत्ता । उन्हं खुहं पिवासं परिस्समं च न विंदइ । सूरत्थमणेतित्थरो धम्मं कहेउमुट्टितो । थेरी गता ॥ ॥ १२०५ ॥ सव्वाअं पि सोया, झविज जइ हु सययं जिणो कहए । सी- उण्ह-खु-प्पिवासा- परिस्सम भए अविगणितो ।। १२०६ ।। [आव.निं. ५७९] अनेनैव दृष्टान्तेन यदि 'हुः' निश्चितं सततं 'जिनः' तीर्थङ्करः कथयेत्, ततः श्रोता 'शीतोष्ण15 क्षुत्पिपासापरिश्रमभयान्यविगणयन्' शीतं - हिमम् उष्णम् - आतपः क्षुत्पिपासे प्रतीते परिश्रमःमार्गगमनादिसमुत्थः भयं - प्रतिपक्षादिजनितम् एतान्यविन्दमानो भगवतो धर्मदेशनां शृण्वन् सर्वायुष्कमपि क्षपयेदिति ॥ १२०६ ॥ गतं श्रोतृपरिणामद्वारम् । अथ दानद्वारम् । भगवान् येषु नगरा - ssकरादिषु विहरति तेभ्यो दिवसदैवसिकीं वार्तां ये खल्वानयन्ति यथा 'भगवान् अद्यामुत्र क्षेत्रे विहरति' इति तेषां यद् 20 भगवत्किंवदन्तीनिवेदनवृतिकल्पं परिभाषितं संवत्सरनियतं दानं दीयते तद् वृत्तिदानम्, यत् पुनः खनगरे भगवदागमननिवेदकाय नियुक्तायानियुक्ताय वा हर्षप्रकर्षाधिरूढमानसैर्दीयते तत् प्रीतिदानम्, एतद् द्वयमपि यथा चक्रवर्त्त्यादयः प्रयच्छन्ति तथा प्रतिपादयन्नाह — वित्ती उ सुवन्नस्सा, बारस अद्धं च सयसहस्साईं । तावइयं चि कोडी, पीईदाणं तु चक्कीणं ॥ १२०७ ।। [आव.नि. ५८०] वृत्तिदानं सुवर्णस्य ‘द्वादश अर्द्ध च शतसहस्राणि' अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः । एव' अर्द्धत्रयोदशप्रमाणा एव सुवर्णस्य कोटयः प्रीतिदानम् । केषाम् : इत्याह - चक्रवर्त्तिनाम् ॥ १२०७ ॥ 25 एतं चैव पमाणं, नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा, वित्ती पीई सयसहस्सा ।। १२०८ ।। [ आव.नि. ५८१ ] 30 एतदेव प्रमाणं वृत्ति प्रीतिदानयोः, 'नवरं' केवलं 'रजतं' रूप्यं 'केशवाः' वासुदेवा ददति । ‘मण्डलिकानां' राज्ञां सहस्राण्यर्द्धत्रयोदशप्रमाणानि रूप्यस्य वृत्तिदानम्, प्रीतिदानं पुनरर्द्धत्रयोदशशतसहस्राणि इति ॥ १२०८ ॥ १ चक्किस्स ता० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy