________________
३७२
॥ ११९७ ॥ अथ भगवत एव रूपसौन्दर्यनिबन्धनं संहननादिकं वर्णयन्नाह — संघयण - रूव-संठाण - वन्न - गइ - सत्त-सार ऊसासा ।
मादणुत्तराई, हवंति नामोदया तस्स ।। ११९८ ।। [आव.नि. ५७१ ] ‘संहननं’ वज्रऋषभनाराचम्, 'रूपम्' अनन्तरोक्तरूपम्, 'संस्थानं' समचतुरस्रम्, 'वर्णः ' 5 देहच्छाया, 'गतिः' भद्रगजेन्द्रानुकारिणी सुललिता, 'सत्त्वं' धैर्यम्, सारो द्विधा – बाह्य आभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञान-दर्शन- चारित्ररूपः, " ऊसास" त्ति उच्छ्रास- निःश्वाससौरभ्यम्, एवमादीनि वस्तूनि तस्य भगवतः 'अनुत्तराणि' अनन्यसामान्यानि भवन्ति, आदिशब्दाद् गोक्षीरगौरं रुधिरा-ऽऽमिषं चर्मचक्षुषामगोचरावाहार - नीहारौ इत्यादि । एतानि च ' नामोदयाद्' नामनाम्नः कर्मणः शुभरूपस्योदयात् 'तस्य' भगवतोऽनुत्तराणि भवन्ति ॥ ११९८॥ किञ्चपडणं अन्नासऽवि, पसन्थ उदया अणुत्तरा होंति ।
खयरवसमे विय तहा, खयम्म अविगप्पमाहंसु ।। ११९९ ।। [आव. नि. ५७२ ] प्रकृतीनाम् ‘अन्यासामपि' नामव्यतिरिक्तानां गोत्रादीनां प्रशस्ता उदया उच्चैर्गोत्रत्वादयो भवन्ति । अपिशब्दाद् नाम्नोऽपि ये उक्तव्यतिरिक्ताः सौभाग्य-सौन्दर्य - यशः कीर्त्तिप्रभृतयस्तेऽपि परिगृह्यन्ते । एते च किमितरजनस्येव प्रशस्ताः ? उत न ? इत्यत आह- 'अनुत्तराः ' अनन्यस15 दृशाः । “खयउवसमे वि य तह" त्ति कर्मणां क्षयोपशमेऽपि सति ये दान - लाभादयः कार्यविशेषास्तेऽपि तथैव भगवतोऽनुत्तराः । 'क्षये' क्षायिके पुनर्भावे वर्त्तमानस्य भगवतः केवलज्ञानादिकं गुणसमुदयम् ‘अविकल्पं’ वर्णनादिविकल्पातीतं सर्वोत्तमम् " आहंसु” त्ति आख्यातवन्तः श्रुतधरा इति ॥ ११९९ || आह केवलिकालेऽप्यसाताद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति ? इति अत्रोच्यते —
20
10
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
अस्सायमाइयाओ, जा वि य असुहा हवंति पगडीओ ।
निंबरसलवु व्व पए, न होंति ता असुहया तस्स || १२०० || [आव.नि. ५७३] 'असाताद्याः' असातावेदनीयादयो या अपि चाशुभा भवन्ति प्रकृतयस्ता अपि निम्बरसलव इव 'पयसि' दुग्धे न भवन्ति अशुभदा असुखदा वा तस्य भगवत इति ॥ १२०० ॥ अथ पृच्छाद्वारम् । आह उत्कृष्टरूपतया भगवतः किं प्रयोजनम् ? इति अत्रोच्यतेधम्मोदएण रूवं, करेंति रूवस्सिणो वि जइ धम्मं ।
गज्झवओ य सुरुवो, पसंसिमो रूवमेवं तु ॥ १२०१ ।। [आय. नि. ५७४ ] धर्मस्य-पुण्यप्रकृतिरूपस्योदयेन रूपं भवतीति परिभाव्य श्रोतारोऽपि धर्मे प्रवर्तन्ते । तथा कुर्वन्ति ‘रूपस्विनोऽपि' रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिः प्रवर्त्तते । 'ग्राह्मवाक् च' आदेयवाक्यः सुरूपः पुरुषो भवति, चशब्दस्यानुक्तसमुच्चयार्थत्वात् श्रोतॄणां 30 रूपाद्यभिमानापहारी च । अतः प्रशंसामो वयं भगवतो रूपमेवमिति ॥ १२०१ ॥
गते रूप-पृच्छाद्वारे । अथ व्याकरणद्वारम् । भगवान् देव-नर-तिरश्चां प्रभूतसंशयिनां व्याकरणं कुर्वन् कथं संशयव्यवच्छित्तिं करोति : इत्युच्यते — युगपदेकेनैव निर्वचनेन । आह यद्येकैके
-
१ कस्य संश° डे० कां० ॥
25