________________
भाष्यगाथाः ११९०-९७] . प्रथम उद्देशः।
'तीर्थ' श्रुतज्ञानं तत्पूर्विका ‘अर्हत्ता' तीर्थकरता, न खलु भवान्तरेषु श्रुताभ्यासमन्तरेण भगवत एवमेवाऽऽर्हन्त्यलक्ष्मीरुपढौकते । तथा पूजितस्य पूजा पूजितपूजा, सा च तीर्थस्य कृता भवति, पूजितपूजको हि लोकः, ततो यद्यहं तीर्थं पूजयामि ततस्तीर्थकरस्यापि पूज्यमिदमिति कृत्वा लोकोऽपि पूजयिष्यति । तथा विनयमूलं धर्म प्ररूपयिष्यामि, अतः प्रथमतो विनयं प्रयुञ्ज, येन लोकः सर्वोऽपि मद्वचनं सुतरां श्रद्दधीत । अथवा कृतकृत्योऽपि भगवान् यथा कथां । कथयति तथा तीर्थमपि नमति । आह नन्वेतदप्यसमीचीनं यत् कृतकृत्यः सन् धर्मदेशनां करोति, नैवम् , अभिप्रायापरिज्ञानाद्, भगवता हि तीर्थकरनामगोत्रं कर्मावश्यवेदयितव्यम् , तस्य च वेदनेऽयमेवोपायो यद् अग्लान्या धर्मदेशनादिकरणम्, "तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं" ति ( आव० नि० गा० १८३) वचनात् ॥ ११९४ ॥ .
गतं समवसरणद्वारम् । अथ "केवइय" ति द्वारम् । कियतो भूभागादवश्यं समवसरणे 10 आगन्तव्यम् ? इत्याह
जत्थ अपुरोसरणं, न दिट्टपुव्वं व जेण समणेणं ।
बारसहिँ जोयणेहिं, सो एइ अणागमे लहुगा ॥ ११९५ ॥ [आब.नि. ५६८] - यत्र नगरादौ 'अपूर्व समवसरणं' विवक्षिततीर्थकरापेक्षया अभूतपूर्वं येन वा श्रमणेन न दृष्टपूर्व स द्वादशभ्यो योजनेभ्यो नियमतः 'एति' आगच्छति । यदि त्ववज्ञया नागच्छति तदा 15 चत्वारो लघवः प्रायश्चित्तम् ॥ ११९५ ॥ अथ रूपद्वारमाह
सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउविजा।।
जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ ११९६ ॥ [आव.नि. ५६९] कीदृग् भगवतो रूपम् ? इत्याह-'सर्वसुराः' वैमानिकादयः सम्भूय यदि सार-सारतरसारतमान् पुद्गलान् गृहीत्वा अङ्गुष्ठप्रमाणकं रूपं विकुर्वेयुः (विकुर्युः ) तथापि जिनपादाङ्गुष्ठं 20 प्रति उपमीयमानं तद् न शोभते, यथाऽङ्गार इति ॥ ११९६ ॥ साम्प्रतं विनेयजनानुग्रहाय प्रसङ्गतो गणधरादीनामपि रूपसम्पदभिधित्सयाऽऽह
गणहर आहार अणुत्तरा य जाव वण-चकि-वासु-बला ।
मंडलिया जा हीणा, छट्ठाणगया भवे सेसा ॥ ११९७ ॥ [आव.नि. ५७०] तीर्थकररूपसम्पदः सकाशाद् अनन्तगुणहीना गणधरा रूपतो भवन्ति । गणधररूपाद् अन-25 न्तगुणहीनाः खल्वाहारकदेहाः । आहारकदेहरूपाद् अनन्तगुणहीना अनुत्तरोपपातिनां देहाः । ततोऽप्यनन्तगुणहीना उपरितनोपरितनौवेयकदेवदेहाः । एवं यावदीशानकल्पदेवरूपाद् अनन्तगुणहीनाः सौधर्मकल्पदेवदेहाः । ततो भवनपति-ज्योतिष्क-वनचर-चक्रवर्ति-वासुदेव-बलदेवमहामण्डलिका अपि. रूपतो यथाक्रममनन्तगुणहीना द्रष्टव्याः । ततः शेषराजानो जनपदलोकाश्च षटस्थानगताः परस्परं भवन्ति । तद्यथा-अनन्तभागहीना वा १ असङ्ख्येयभागहीना वा २ 30 सधेयभागहीना वा ३ संख्येयगुणहीना वा ४ असहयेयगुणहीना वा. ५ अनन्तगुणहीना बा ६
१ यदि नाग° भा० त० विना ॥ २ गतं केवइय त्ति द्वारम्, अथ डे० ॥ ३. उपनीयमानं भा० विना ॥