________________
३७०
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ अतः स्थानात्' इति लक्षणा, न 'विकथा' स्त्रीकथादिरूपा सामान्यतो वार्ता प्रबन्धात्मका वा, न परस्परं 'मत्सरः' प्रद्वेषः, न 'भयं' सन्त्रासः कुतोऽपि बलवतो वैरिणः सकाशात् , प्रत्युत भगवतः साम्यसुधासिन्धुपूरेण प्लावितमनसां तेषां विलीयन्ते विरोधानुबन्धविषोर्मय इति ॥ ११८९ ॥
आह प्राकाराणां बाह्ययोर्द्वयोरन्तरयोः के तिष्ठन्ति ? इत्याह-- 5
बिइयम्मि होंति तिरिया, तइए पागारमंतरे जाणा।
- पागारजट तिरिया, वि होति पत्तेय मिस्सा वा ॥ ११९० ॥ [आव.नि. ५६३] द्वितीये प्राकारान्तरे भवन्ति 'तिर्यञ्चः' सिंह-हस्त्यादयः । तृतीये तु प्राकारान्तरे 'यानानि' वाहनानि भवन्ति । 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः तिर्यश्चः, अपिशब्दाद् मनुष्य-देवा अपि प्रत्येकं मिश्रा वा भवन्ति ॥ ११९० ॥ एवं समवसरणे विरचिते सति किं भवति ? इत्याह
सव्वं व देसविरई, सम्म घेच्छइ व होइ कहणा उ ।
इहरा अमूढलक्खा , न कहइ भर्भावस्सइ न तं च ॥ ११९१ ॥ [आव.नि. ५६४] सर्वविरतिं वा देशविरतिं वा सम्यग्दर्शनं वा कश्चिद् ग्रहीप्यतीति ज्ञात्वा भगवतः 'कथना' धर्मदेशना भवति । 'इतरथा' सम्यक्त्वग्रहणस्याप्यभावे मूढं-विपर्ययमुपगतं लक्ष्य-ज्ञेयवस्तु यस्य
स मूढलक्ष्यो न तथा अमूढलक्ष्यो यथावस्थितवस्तुवेदीति भावः, एवंविधो भगवान् 'न कथयति' 15 न करोति धर्मदेशनाम् । आह यद्येवं तर्हि समवसरणकरणप्रयासो विबुधानामपार्थकः प्राप्नो
तीत्याह-भविष्यति न तच्च यद् भगवत्यपि धर्मकथां कुर्वाणेऽन्यतमोऽप्यन्यतमत् सामायिकं न प्रतिपद्यते, भगवतः सातिशयत्वात् । भविष्यत्कालनिर्देशस्त्रिकालोपलक्षणार्थः ॥ ११९१ ॥ आह यद्येवं तर्हि कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते ? इत्याह
मणुए चउमन्नयरं, तिरिए तिनि व दुवे व पडिवजे । 20
जइ नत्थि नियमसा च्चिय, सुरसु सम्मत्तपडिवत्ती ।। ११९२ ॥ [आव.नि. ५६५] ___ मनुष्यश्चतुर्णा सामायिकानां सम्यक्त्व-श्रुत-देशविरति-सर्वविरतिरूपाणामन्यतरत् प्रतिपद्यते। तिर्यञ्चः 'त्रीणि वा' सम्यक्त्व-श्रुत-देशविरतिरूपाणि, द्वे वा सम्यक्त्व-श्रुतसामायिके प्रतिपद्यन्ते । यदि मनुष्य-तिरश्चां मध्ये कश्चित् प्रतिपत्ता नास्ति ततो नियमत एव 'सुरेषु' देवेषु कस्यापि सम्यक्त्वप्रतिपत्तिर्भवति ॥ ११९२ ॥ स च भगवानित्थं धर्ममाचष्टे
तित्थपणामं काउं, कहेइ साहारणेण सद्देणं ।
सव्वेसिं सन्नीणं, जोयणनीहारिणा भगवं ॥ ११९३ ॥ [आव.नि. ५६६] 'नमस्तीर्थाय' इत्यभिधाय प्रणामं च कृत्वा सर्वेषां सुर-नरादीनां संज्ञिनां जीवानां 'साधारणेन' खस्वभाषापरिणमनसमर्थेन 'योजननीहारिणा' योजनव्यापिना शब्देन भगवान् धर्म कथयति । किमुक्तं भवति ?--भगवतो दिव्यध्वनिरशेषाणामपि समवसरणवर्तिनां संज्ञिजन्तूनां जिज्ञासि30 तार्थप्रतिपत्तिनिबन्धनमुपजायते ॥ ११९३ ॥ आह कृतकृत्योऽपि भगवान् किमिति तीर्थप्रणामं करोति ? इति उच्यते
तप्पुब्बिया अरहया, पूड़यपया य विणयमूलं च । कयकिच्चो वि जह कह, कहेइ नमए तहा तित्थं ॥ ११९४ ॥ [आव.नि. ५६७]
25