________________
भाष्यगाथाः १९८४-८९]
प्रथम उद्देशः ।
प्रविश्य तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे यथाक्रममेव तिष्ठन्ति ॥ ११९८६ ॥ भवणवई जोइसिया, बोधव्वा वाणमंतरसुरा य ।
वेमाणिया य मणुया, पयाहिणं जं च निस्साए ।। ११८७ ।। [आव.नि. ५६०] भवनपतयो ज्योतिष्का वानमन्तरसुराश्च एंते भगवन्तमभिवन्द्य यथोपन्यासमेव पृष्ठतः पृष्ठत उत्तरपश्चिमे दिग्भागे तिष्ठन्तीति बोद्धव्याः । वैमानिका देवा मनुष्याः चशब्दाद् मनुष्यस्त्रियश्चं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्योत्तरपूर्वे दिग्भागे यथाक्रममेव तिष्ठन्तीति । "जं च निस्साए " त्ति यः परिवारः 'यं' देवं मनुजं वा 'निश्राय' निश्रां कृत्वा आगतः स तस्यैव पार्श्वे तिष्ठति ॥ ११८७ ॥ अत्रान्तरे भाष्यादर्शेषु केषुचिदेता गाथा दृश्यन्ते
३६९
अणगारा वैमाणियवरंगणा साहुणी य पुव्वेणं ।
पविसंति विविहमणि-रयणकिरणनिकरेण दारेणं ॥ १ ॥ [ प्र० ] जोइसिय-भवण - वणयरदयिता लायन्न रूवकलियाओ । पविसंति दक्खिणं, पडाय-झयपंतिकलिएणं ॥ २ ॥ [ प्र० ] जोइसिय भवण वणयर, ससंभ्रमा ललियकुंडलाहरणा । पविसंति पच्छिमेणं, वि तुंगदिप्पंतसिहरेणं ॥ ३ ॥ [ प्र० ] समहिंदा कप्पोवगदेवा राया नरा य नारीओ ।
पविसंति उत्तरेणं, पवरमणिमऊ ओहेणं || ४ || [प्र० ] एताश्च द्वयोरपि चूर्ण्योरगृहीतत्वात् प्रक्षेपगाथाः सम्भाव्यन्ते । उक्तार्थाः सुगमाश्चेति ॥ अभिहितार्थोपसङ्ग्रहायाह-
10
15
एकेकी दिसाए, तिगं तिगं होइ सन्निविद्धं तु ।
आइ-चरिमे विमिस्सा, यी - पुरिसा सेस पत्तेयं ॥ ११८८ ।। [आव.नि. ५६१] 20 एकैकस्यां दिशि त्रिकं त्रिकं 'सन्निविष्टम्' उपविष्टमूर्ध्वस्थितं वा भवति । तथाहि — दक्षिणपूर्वस्यां दिशि संयता वैमानिकाङ्गनाः संयत्यश्चेति त्रयम्, अपरदक्षिणस्यां भवनपति-ज्योतिष्कव्यन्तरदेवीनां त्रयम्, उत्तरापरस्यां भवनपति - ज्योतिष्क व्यन्तरदेवानां त्रयम्, उत्तरपूर्वस्यां वैमानिकदेव-मनुष्य-मनुष्यीणां त्रयमिति । अत्र चाद्ये चरमे च त्रिके विमिश्राः स्त्री-पुरुषाः, स्त्रियः पुरुषाश्चोभयेऽपि भवन्तीति भावः । 'शेषयोस्तु' मध्यमयोर्द्वयोस्त्रिकयोः स्त्रियः पुरुषाश्च 'प्रत्येकमिति' ॐ निर्मिश्रा एव भवन्तीति ॥ ११८८ ॥ तेषां चेत्थं स्थितानां सुर-नराणां स्थितिमाहइंतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता ।
न वि जंतणा न विकहा, न परोष्परमच्छरो न भयं ॥ ११८९ ।। [आव.नि. ५६२] येऽल्पर्द्धयः पूर्वं भगवतः समवसरणे स्थितास्ते आगच्छन्तं महर्द्धिकं 'प्रणिपतन्ति' नमस्कुर्वन्ति । अथ महर्द्धिकः प्रथमं स्थितः ततो येऽल्पर्द्धयः पश्चादागच्छन्ति ते महर्द्धिकं पूर्वस्थित - 30 मपि प्रणमन्तो व्रजन्ति यथास्थानम् । तथा नापि तेषां तत्रस्थितानां 'यत्रणा' 'न गन्तव्यं भवता
१ " एते अवरदारेणं पविसित्ता" इत्यधिकं चूर्णौ विशेषचूर्णौ च ॥ २ " उत्तरेणं पविसित्ता” इत्यधिकं चूर्णो विशेष चूर्णो च ॥