________________
10
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
आह भुवनगुरुरूपस्य सकलत्रिभुवनातिशायित्वात् त्रिदशकृतानां प्रतिरूपकाणां तेन सह साम्यम् ? असाम्यं वा ? इत्याशङ्कानिरासार्थमाह-
जे' ते देवेहिं कया, तिदिसिं पडिरूवगा जिणवरस्स ।
सिं पि तप्पभावा, तयाणुरूवं हवइ रूवं ।। ११८४ ॥ [ आव.नि. ५५७ ] 5 यानि तानि देवैः कृतानि तिसृषु दिक्षु जिनवरस्य प्रतिरूपकाणि तेषामपि 'तत्प्रभावात् ' तीर्थकरप्रभावात् ‘तदनुरूपं' तीर्थकररूपानुरूपं रूपं भवति ॥ ११८४ ॥
अथ ये यथा भगवतः समवसरणे निषीदन्ति तिष्ठन्ति वा तानभिधित्सुः सङ्ग्रहगाथामाहतित्थाऽइसेससंजय, देवी वेमाणियाण समणीओ ।
भवण व वाणमंतर - जोइसियाणं च देवीओ ।। ११८५ ।। [ आव.नि. ५५८ ]
‘तीर्थं' गणधरस्तस्मिन् उपविष्टे सति अतिशायिनः संयता उपविशन्ति, ततो देव्यो वैमानि - कानाम्, ततः श्रमण्यः, तथा भवनपति - व्यन्तर - ज्योतिष्काणां च देव्य इति ॥ ११८५ ॥ अथैतदेव विवृणोति -
३६८
15
केवलिणो तिउण जिणं, तित्थपणामं च मग्गओ तस्स ।
मणमाई विनमंता, वयंति सद्वाण सट्ठाणं ।। ११८६ ।। [ आव.नि. ५५९ ] केवलिनः पूर्वद्वारेण प्रविश्य जिनं 'त्रिगुणं' त्रिः प्रदक्षिणीकृत्य 'नमस्तीर्थाय ' इति वचसा तीर्थप्रणामं च कृत्वा 'तस्य' तीर्थस्य - प्रथमगणधररूपस्य शेषगणधराणां च 'मार्गतः' पृष्ठतो दक्षिणपूर्वस्यां निषीदन्ति । तथा "मणमाई वि" त्ति मनः पर्यवज्ञानिन आदिशब्दाद् अवधि ज्ञानिनः चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विण आमर्षैषध्यादिविविधलब्धिमन्तश्च प्राच्यद्वारेण प्रविश्य भगवन्तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च 'नॅमस्तीर्थाय नमो गणधरेभ्यः, नमः केवलिभ्यः' 20इत्यभिधाय केवलिनां पृष्ठत उपविशन्ति । शेषसंयता अपि प्राचीनद्वारेणैव प्रविश्य भुवनगुरुं प्रदक्षिणीकृत्य वन्दित्वा च 'नमैस्तीर्थाय नमो गणभृद्भ्यः, नमः केवलिभ्यः, नमोऽतिशयज्ञानिभ्यः' इति भणित्वा अतिशयिनां पृष्ठतो निषीदन्ति । एवं मनः पर्यायज्ञान्यादयोऽपि नमन्तः सन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति । तथा वैमानिकानां देव्यः पूर्वद्वारेण प्रविश्य भुवनबान्धवं त्रिः प्रदक्षिणीकृत्य नत्वा च 'नमस्तीर्थाय नमः सर्वसाधुभ्यः' इत्यभिधाय निरतिशयसाधूनां पृष्ठत25 स्तिष्ठन्ति न निषीदन्ति । श्रमण्योऽपि पौरस्त्यद्वारेण प्रविश्य तीर्थकृतं प्रदक्षिणीकृत्य प्रणम्य च "तीर्थस्य साधूनां च नमस्कारं विधाय वैमानिकदेवीनां पृष्ठतस्तिष्ठन्ति न निषीदन्ति । ( ग्रन्थानं ५००० आदितः ९६०० ) भवनपतिदेव्यो ज्योतिष्कदेव्यो व्यन्तरदेव्यश्च दाक्षिणात्यद्वारेण
१ गाथेयं चूर्णो विशेषचूर्णो च नास्त्यादृता ॥ २ “तित्थाति• गाधा । जो तित्थं सो पुग्वदारेण पविसित्ता तित्थकरं तिक्खुत्तो वंदित्ता दाहिणपुरत्थिमे दिसीभागे णिसीयति । सेसा गणधरा एवं चैव काउं तित्थस्स मग्गतो पासेसु णिसीयंति ।" इति चूर्णौ विशेषचूर्णौ च ॥ ३ इति गाथा समुदायार्थः ॥११८५॥ अथावयवार्थमाह- भा० ॥ ४ " नमो तित्थस्स, नमो केवलीणं ति भणित्ता" इति चूर्णौ ॥ ५ ‘णमो तित्थस्स, णमो अतिसेसियाणं ति भणित्ता” इति चूर्णो ॥ ६° नतिलकं प्रद° मो० ० ॥ ७" णमो तित्थस्स, णमो अइसेसियाणं, नमो साहूणं ति भणिता" इति विशेषचूर्णो ॥