________________
भाष्यगाथाः ११७७-८३ ]
प्रथम उद्देशः ।
३६७
वातोदकादिकं ‘करणीयं’ कर्त्तव्यं कुर्वन्ति तद् वानमन्तरा देवा इति ॥ ११८० ॥ आह किं. यद् यत् समवसरणं भवति तत्र तत्रायमित्थं नियोगः ? उत न इति, अत्रोच्यतेसाहारण ओसरणे, एवं जत्थिडिमं तु ओसरई । [आव. नि. ५५४ ] एकोच्चि तं सव्वं, करेइ भयणा उ इयरेसिं ॥। ११८१ ॥
साधारणं - यत्र बहवो देवेन्द्रा आगच्छन्ति तत्र समवसरणे 'एवम्' अनन्तरोक्तो नियोगः 15 यत्र तु 'ऋद्धिमान् ' कश्चिदिन्द्रसामानिकादिः 'समवसरति' आगच्छति तत्रैक एवासौ 'तत्' प्राकारादिकं सर्वमपि कैरोति । " भयणा उ इयरेसिं" ति यदीन्द्रादयो महर्द्धिका नागच्छन्ति ततः 'इतरे' भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजना कार्येति ॥
1
अत्र विशेषचूर्णावित्थं विशेषो दृश्यते – चाउक्कोणा तिन्नि पागारा रइज्जति चउद्दारा । अभितरिलो लोहियक्खेहिं, मज्झिल्लो पीयएहिं, बाहिरिल्लो सेयएहिं । सबो समोसरणभागो 10 जोयणं । अभितर-मज्झिमाणं पागाराणं अंतरं जोयणं । मज्झिम - बाहिराणं पागाराणं अतरं गाउ ति ॥ ॥ ११८१ ॥
इत्थं देवैः समवसरणे विरचिते सति यथा भगवान् तत्र प्रविशति तथाऽभिधातुकाम आह— सूरुदय पच्छिमार, ओगाहिंतीऍ पुव्वओ एति । [ आव.नि. ५५५ ] दोहिं परमेहिं पाया, मग्गेण य होंति सत्तने ।। ११८२ ॥
'सूर्योदये' प्रथमायां पौरुप्याम् अपराह्णे तु पश्चिमायाम् 'अवगाहमानायाम्' आगच्छन्त्यामित्यर्थः ‘पूर्वतः’ पूर्वद्वारेण भगवान् 'एति' आगच्छति प्रविशतीत्यर्थः । कथम् ? इत्याह-द्वयोः 'पद्मयोः ' सहस्रपत्रयोर्देवपरिकल्पितयोः पादौ स्थापयन्नित्युपस्कारः । " मग्गेण य" त्ति प्राकृतत्वाद् विभक्तिव्यत्यये ‘मार्गतः’ पृष्ठतो भगवतः सप्तान्यानि पद्मानि भवन्ति तेषां च यद् यत् पाश्चात्यं तत् तत् पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति ॥ ११८२ ॥
ततः प्रविश्य किं करोति ? इत्याह
15
१ करोति । अत एवाऽऽवश्यक चूर्णिकृताऽभ्यधायि - असोगपायवं जिणउच्चन्त्ताओ बारसगुणं सक्को विउव्वति इत्यादि । "भयणा उ भा० पुस्तके ॥ २ त्थं पठ्यते भा० ॥ ३ या जिणवरस्स । जेट्ठ° ता० ॥ ४ 'दति इति क्रियाध्याहारः । शेषा भा० ॥
20
आयाहिण पुव्वमुहो, तिदिसिं पडिरूवयाँ य देवकया । [ आव.नि. ५५६ ] जेट्ठगणी अन्नो वा, दाहिणपुव्वे अदूरम्मि ।। ११८३ ॥
“आयाहिण” त्ति भगवान् चैत्यद्रुमस्य प्रदक्षिणां विधाय पूर्वमुखः सिंहासनमध्यास्ते । यासु च दिक्षु भगवतो मुखं न भवति तासु तिसृष्वपि तीर्थकराकारधारकाणि सिंहासन - चामर - च्छत्र- 25 धर्मचत्रालंकृतानि प्रतिरूपकाणि देवकृतानि भवन्ति, यथा सर्वोऽपि लोको जानीते 'भगवानस्माकं पुरतः कथयति' । भगवतश्च पादमूलं जघन्यत एकेन गणिना - गणधरेणाऽविरहितं भवति, स च ज्येष्ठोऽन्यो वा भवेत्, प्रायो ज्येष्ठ एव । स च ज्येष्ठगणिरन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे दिग्भागे 'अदूरे' प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीर्देति । शेषा अपि गणधरा एवमेवाभिवन्द्य ज्येष्ठगणधरस्य मार्गतः पार्श्वतश्च निषीदन्तीति ॥ ११८३ ॥
30