________________
भाष्यगाथाः ११७१-७६] प्रथम उद्देशः ।
३६५ श्रुतमिति प्रक्रमः । 'अपि च' इत्यभ्युच्चये, भगवतः समीपे अधीयमानानां कारणान्तरमप्यस्तीति भावः । किं यादृशो रखेः-आदित्यस्य प्रकाशः ईदृशः किं खद्योतादीनां सम्भवी ? यादृशं वा राज्ञः सेवा विधीयमाना फलमुपढौकयति ईदृशं किममात्यादीनां सेवा सम्पादयति ? यादृशानि वा महान्ति हस्तिनः पदानि ईदृशानि किं कुन्थूनां सम्भवन्ति ? एवं यादृशानि महार्थानि भगवतस्तीर्थकृतो वचनानि ईदृशान्यपरेषां किं कदाचिद् भवन्ति ? इत्यतस्तीर्थकरोपकण्ठमेव व्रजामि 5 ॥ ११७४ ॥ इत्थं शिष्येणोक्ते सूरिराह
कोट्ठाइबुद्धिणो अत्थि संपर्य एरिसाणि मा जंप ।
अवि य तहिं वाउलणा, विरयाण वि कोउगाईहिं ॥ ११७५ ॥ ___ यथा कोष्ठके धान्यं प्रक्षिप्तं तदवस्थमेव चिरमप्यवतिष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रा-ऽौँ निक्षिप्तौ तदवस्थावेव चिरमप्यवैतिष्ठेते ते कोष्ठबुद्धयः । आदिशब्दात् पदा-10 नुसारिबुद्धयो बीजबुद्धयश्च गृह्यन्ते । तत्र ये गुरुमुखादेकसूत्रपदमनुसृत्य शेषमश्रुतमपि भूयस्तैरं पदनिकुरम्बमवगाहन्ते ते पदानुसारिखुद्धयः, ये त्वेकं बीजभूतमर्थपदमनुसृत्य शेषमवितथमेव प्रभूततरमर्थपदनिवहमवगाहन्ते ते बीजबुद्धयः, एवंविधाः कोष्ठादिबुद्धयः साम्प्रतमपि सन्ति येषु सूत्रार्थो न परिशटत इति भावः । तद् ईदृशानि धूलिज्ञातादीनि ‘मा जल्प' मा ब्रूहि । अपि च 'तत्र' भगवतः समीपे अधीयमानानां 'विरतानामपि' साधूनामपि कौतुकादिभिः 'व्याकुलना' 15 व्याकुलीकरणं भवति, सकलस्यापि लोकस्य कौतुकहेतुत्वात् । कौतुकं-समवसरणम् , आदिग्रहणेन भगवतो धर्मदेशनाश्रवणादिपरिग्रहः ॥ ११७५ ॥ ___ अथ किमिदं समवसरणम् ? इति तद्वक्तव्यतां प्रतिपिपादयिषुरगाथामाहसमवसरणवक्तव्यता
समोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे ।
दाणं च देवमल्ले, मल्लाणयणे उवरि तित्थं ॥ ११७६ ॥ [आव नि. ५४३] समवसरणविषयो विधिर्वक्तव्यः । “केवइय" ति कियतो भूभागाद् अपूर्वसमवसरणे अदृष्टपूर्वेण साधुना आगन्तव्यम् ? । “रूवं" ति भगवतो रूपं वर्णनीयम् । “पुच्छ" त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनम् ? इति पृच्छा प्रतिवचनं च वाच्यम् । “वागरणं" ति व्याकरणं भगवतो वक्तव्यम् , यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोति । तथा श्रोतृषु परि- 25 णामः श्रोतृपरिणामः स वक्तव्यः, यथा भागवती वाणी सर्वेषां खखभाषया परिणमते । वृत्तिदानं प्रीतिदानं वा कियत् प्रयच्छन्ति चक्रवर्त्यादयस्तीर्थकरप्रवृत्तिनिवेदकेभ्यः ? । तथा 'देवमाल्यं' बलिः, देवा अपि तत्र गन्धादि प्रक्षिपन्तीति कृत्वा तत् कः कथङ्कारं करोति ? इति । "मल्लाणयणे" त्ति तस्य च माल्यस्यानयने यो विधिः । “उवरि तित्थं" ति उपरि प्रथमपौरुष्यां व्यतीतायां 'तीर्थ' प्रथमगणधरो धर्मदेशनां करोति । तदेतत् सर्वमभिधातव्यमिति द्वारगाथा-30 सङ्केपार्थः ।। ११७६ ॥ अथैनामेव प्रतिद्वारं विवरीषुराह१°वतिष्ठते ते डे० विना ॥ २ °स्तरपद त० डे० कां० ॥
20