________________
३६४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ ज्ञानी 'त्रिषु' मनोवाक्कायेषु गुप्तः सन् उच्छासमात्रेणापि कालेन क्षपयति ॥ ११७० ॥ गतं निर्जराद्वारम् । अथ परदेशकत्वद्वारमाह
आय-परसमुत्तारो, आणा वच्छल्ल दीवणा भत्ती।
होति परदेसियत्ते, अव्वोच्छित्ती य तित्थस्स ॥ ११७१ ॥ । पठितः सन् परेषां देशकत्वं मार्गदेशित्वं करोति, तस्मिन् आत्मनः परस्य च समुत्तारो भवति । तथाहि—स साधुरधीतश्रुतः सन् अपरान् साधून अध्यापयन् आत्मनो ज्ञानावरणीयं कर्म उपहन्ति, ते च साधवो ज्ञानोपदेशेनाऽचिरादेवापारसंसारमहोदधेरुत्तरन्ति । एवं च कुर्वता तीर्थकृतामाज्ञा अध्याप्यमानसाधूनां च वात्सल्यं तथा दीपना-प्रभावना भक्तिश्च पारमेश्वरप्रवचनस्य
एतानि कृतानि भवन्ति, तीर्थस्य चाऽव्यवच्छित्तिरासूत्रिता भवति । एते गुणाः परदेशकत्वे 10 भवन्तीति ॥ ११७१ ॥ गतं परदेशकत्वद्वारम् । ततश्चावसिता "आयहिय" (गा० ११६२) इत्यादि द्वारगाथा । अथ प्रकृतयोजनां कुर्वन्नाह
जिणकप्पिएण पगयं, जिणकाले सो उ केवलीणं वा ।
सो भणइ एव भणितो, कत्थ अहीयं भयंतेहिं ॥११७२ ॥ अत्र जिनकल्पिकेन प्रकृतम् । 'स तु' जिनकल्पिको नियमाद् जिनस्य-तीर्थकरस्य काले वा 15 स्याद् अपरेषां वा गणधरादीनां केवलिनां काले । ततः 'सः' शिष्यः ‘एवं' हेतु-दृष्टान्तैः 'भणितः' प्रज्ञापितो भणति-भगवन् ! यद्येवं ततः पठाम्यहम् परमाचक्षतां पूज्याः-कुत्र 'भदन्तैः' भगवद्भिरधीतं यस्मादसौ शिप्यो जिनकल्पिको भविष्यति स च जिनकाले वा भवेत् केवलिकाले वा ? ॥ ११७२ ॥ अतः स आचार्यः प्रतिब्रूयात्.--
अंतरमणंतरे वा, इति उदिए धूलिनायमाहंसु । 20 चिक्खल्लेण य नायं, तम्हा उ वयामि जिणमूलं ॥ ११७३ ॥ ____ अन्तरं-परम्परकेण मयाऽधीतम् अनन्तरं वा । तत्र यदि स आचार्यों गणधरशिप्यस्तस्याप्याराद्धा ततः 'परम्परकेणाधीतम्' इत्यभिदध्यात् । अथासौ गणधर एव ततः 'अनन्तरं जिनसकाश
एव मयाऽधीतम्' इति ब्रूयात् । 'इति' एवम् ‘उदिते' आचार्येणाऽभिहिते स शिप्यो धूलिज्ञातं धूलिचिक्खल्लज्ञाते
चिक्खल्लज्ञातं चाख्यातवान् यथा धूलिरेकत्र स्थापयित्वा तत उद्धृत्यान्यत्र यत्रास्तीर्यते तत्रावश्यं 25 किञ्चित् परिशटति, ततोऽप्यन्यत्र प्रस्तीर्यमाणा भूयस्तरा परिशटति; यथा वा प्रासादे लिप्यमाने
मनुष्यपरम्परया चिक्खल्लः प्रत्यर्यमाणो बहुपरिशटितः स्तोकमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तं प्रामोति; एवमेतावपि सूत्रार्थो परम्परया गृह्यमाणौ परिशटतः, तस्मात्तु 'जिनमूलं' तीर्थकरोपकण्ठमेव व्रजामि, तत्राविनष्टमेव सूत्रं भविष्यतीति ॥ ११७३ ॥
कैः पुनस्तत् परिशटति ? इत्याह30
पय-पाय-मक्खरेहि, मत्ता-घोसेहिं वा वि परिहीणं ।
अवि य रवि-राय-हत्थी, पगास सेवा पया चेव ॥ ११७४ ॥ पदैः पावरक्षरैर्मात्रया घोषैर्वा अपिशब्दाद् बिन्दुना वा परिहीणं भवति परम्परया अधीयमानं १°धीतः साधून डे० मो० कां० ॥ २ भवद्भि भा० त० डे० ॥