________________
३६३
15
भाष्यगाथाः ११६२-७०] प्रथम उद्देशः ।
जह जह सुयमोगाहइ, अइसयरसपसरसंजुयमपुव्वं ।।
तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ ॥ ११६७॥ यथा यथा 'श्रुतम्' आगममपूर्वमवगाहते, कथम्भूतम् ? 'अतिशयरसप्रसरसंयुतम्' अतिशयाः-अर्थविशेषास्तेषु यो रसः श्रोतृणामाक्षेपकारी गुणविशेषस्तस्य यः प्रसरः-अतिरेकस्तेन संयुतं-युक्तम् । यद्वा श्रवणं श्रुतम् , तत् कथम्भूतम् ? अतिशयस्य-अर्थस्य रसः-आस्वादनं तत्र यः प्रसरः-गमनं तेन संयुतम् । अपूर्व यथा यथाऽवगाहते तथा तथा मुनिः 'प्रहादते' शुभभावसुखासिकया मोदते । कथम्भूतः ? इत्याह-नवनवः-अपूर्वापूर्वो यः संवेगः-वैराग्यं तद्गर्भा श्रद्धा-मुक्तिमार्गाभिलाषलक्षणा यस्य स नवनवसंवेगश्रद्धाक इति ॥ ११६७ ॥ गतं नवनवसंवेगद्वारम् । अथ निष्कम्पताद्वारमाह__णाणाणत्तीऍ पुणो, दंसणतवनियमसंजमे ठिच्चा।
विहरइ विसुज्झमाणो, जावजीवं पि निकंपो ॥११६८॥ ज्ञानस्य या आज्ञप्तिः-आदेशः "जाए सद्धाए निक्खंतो तमेवमणुपालए" ( आचाराङ्ग श्रु० १ अ० १ उ० ३) इत्यादिकस्तया दर्शनप्रधाने तपोनियमरूपे संयमे स्थित्वा कर्ममलेन विशुध्यमानः सन् यावज्जीवमपि 'निष्कम्पः' स्थिरचित्तवृत्तिः 'विहरति' संयमाध्वनि गच्छतीति ॥ ११६८ ॥ गतं निष्कम्पताद्वारम् । अथ तपोद्वारमाह
बारसविहम्मि वि तवे, सभितरबाहिरे कुसलदिटे । [दश.नि. १८७]
न वि अत्थि न वि अ होही, सज्झायसमं तवोकम्मं ॥११६९ ॥ द्वादशविधेऽपि तपसि 'साभ्यन्तरबार्बी' सहाऽऽभ्यन्तरेण यद् बाह्यं तत् साभ्यन्तरबाह्यम् । तत्राभ्यन्तरं तपः पोढाप्रायश्चित्त-ध्याने, वैयावृत्त्य-विनयावथोत्सर्गः ।
____20 'खाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ (प्रशम० आ० १७६) बाह्यमपि बोढा
अनशनमूनोदरता, वृत्तेः सङ्केपणं रसत्यागः ।
कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ (प्रशम० आ० १७५) तथा कुशाः-द्रव्यतो दर्भादयो भावतः कर्माणि तान् कर्मरूपान् कुशान् लुनन्ति-समूलानुत्पाट-25 यन्तीति कुशलाः, "पृषोदरादयः" (सिद्ध०३-२-१५५) इति रूपनिष्पत्तिः, तीर्थकरा इत्यर्थः; तैर्दष्टे-कर्मक्षपणकारणतया केवलदृष्ट्या वीक्षिते, परं वाचनादिरूपो यः स्वाध्यायस्तत्समं तत्तुल्यं तपःकर्म नास्ति नापि भविष्यति चशब्दाद् न चाभूत् , प्रभूततरकर्मक्षपणहेतुत्वादिति ॥११६९॥ गतं तपोद्वारम् । अथ निर्जराद्वारमाह
जं अन्नाणी कम्मं, खवेइ बहुयाहिँ वासकोडीहिं ।
तं नाणी तिहिं गुत्तो. खवेड़ ऊसासमत्तेण ।।११७०॥ [पत्र. समु. पद. आव. नियु. पंचवस्तुक] __ यद् अज्ञानी जीवो नैरयिकादिभवेषु वर्तमानो बहीभिर्वर्षकोटीभिः कर्म क्षपयति 'तत्' कर्म
१ परवाच त• हे. कां०॥
30