________________
10
३६२
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ स्म—आर्य ! अधीष्वाधीष्व सूत्रम् , परमहमात्मवैरिकतया नापाठिषम् , यदि नाम ईदृशानामपि मुग्धश्लोकानां पठितानामीदृशं फलमाविरभूत् किं पुनः सर्वज्ञोपज्ञश्रुतस्य भविष्यति ?' इति विचिन्त्य गुरुसकाशे गमनम् । ततो मिथ्यादुष्कृतं दत्त्वा सम्यक् पठितुं लम इति ॥ ११६१ ॥
किञ्च श्रुताध्ययनेऽमी. अभ्यधिका गुणाःश्रुताध्य
आयहिय परिण्णा भावसंवरो नवनवो अ संवेगो। यने गुणाः
निकंपया तवो निजरा य परदेसियत्तं च ॥ ११६२ ॥ आत्महितं १ परिज्ञा २ भावसंवरः ३ नवनवश्व संवेगः ४ निष्कम्पता ५ तपः ६ निर्जरा च ७ परदेशिकत्वं च ८ इति द्वारगाथासमासार्थः ॥ ११६२ ॥ अथ विस्तरार्थमाह
आयहियमजाणंतो, मुज्झति मूढो समादिअति कम्मं ।
कम्मेण तेण जंतू, परीति भवसागरमणंतं ॥ ११६३ ॥ अनधीतश्रुतः सन् आत्मनो हितम्-इह-परलोकपथ्यमजानन् मुह्यति, हितेऽप्यहितबुद्धिम् अहितेऽपि हितबुद्धिं करोतीति भावः । मूढश्च 'कर्म' ज्ञानावरणीयादिकं निबिडतरं समादत्ते । तेन च कर्मणा जन्तुः 'पर्येति' परिभ्रमति भवसागरमनन्तम् ॥ ११६३ ॥
अथात्महिते परिज्ञाते को गुणः ? इत्याह15
आयहियं जाणंतो, अहियनिवित्तीऍ हियपवित्तीए ।
हवइ जतो सो तम्हा, आयहियं आगमेयव्वं ॥ ११६४ ॥ आत्महितं जानानः अहिताद्-आत्म-संयम-प्रवचनोपघातकाद् निवृत्तौ हिते-संयमाद्युपकारिणि प्रवृत्तौ यतः प्रयत्नवानसौ भवति, तस्माद् आत्महितम् ‘आगमयितव्यम्' आगमनं आगमःपरिज्ञानं तद्गोचरमानेतव्यमिति ॥ ११६४ ॥ गतमात्महितद्वारम् । अथ परिज्ञाद्वारमाह
सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तो य।।
होइ य एक्कग्गमणो, विणएण समाहिओ साहू ॥११६५ ॥ 'स्वाध्याय' श्रुतं जानानः साधुः पञ्चखिन्द्रियेषु इष्टा-ऽनिष्टविषयराग-द्वेषपरिहारेण संवृतः पञ्चेन्द्रियसंवृतः, त्रिषु-मनोवाक्काययोगेषु गुप्तस्त्रिगुप्तः, भवति च 'एकाग्रमनाः' शुभध्यानैकमानसः 'विनयेन' गुर्वादिषु शिरोनमना-ऽञ्जलिबन्धादिलक्षणेन 'समाहितः' सम्यगुपयुक्त इति । अत्र च 25 "सज्झायं जाणंतो' इत्यनेन ज्ञपरिज्ञा “पंचिंदियसंवुडो" इत्यादिना तु प्रत्याख्यानपरिज्ञाऽभिहितेति द्रष्टव्यम् ॥ ११६५॥ गतं परिज्ञाद्वारम् । अथ भावसंवरमाह
नाणेण सव्वभावा, नजंते जे जहिं जिणक्खाया।
- नाणी चरित्तगुत्तो, भावेण उ संवरो होइ ॥ ११६६ ॥ 30 ज्ञानेन सर्वेऽपि-अशेषा हिता-हितरूपा भावा ज्ञायन्ते ये यत्रोपयोगिनो जिनैराख्याताः । अत एव ज्ञानी चारित्रगुप्तः 'भावेन' तत्त्ववृत्त्या संवरो भवति । गुण-गुणिनोरभेदविवक्षणादेवं निर्देशः ॥ ११६६ ॥ अथ “नवनवो य संवेगो" (गा० ११६२) इति व्याख्यानयन्नाह१°ष्कृतं कृत्वा सम्य° भा० ॥
20