________________
३६१
5
भाष्यगाथाः ११५७-६१] प्रथम उद्देशः ।
आधावसी पधावसी, ममं वा वि णिरिक्खसी ।
लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा! ।। (गा० ११५७) रन्ना नायं-वेतिया मो, धुवं अतिसेसी एस साधू । तओ बितिओ पढिओ
इओ गता इओ गता, मग्गिजंती ण दीसई ।
अहमेयं विजाणामि, अगडे छूढा अडोलिया ॥ (गा० ११५८) तं पिणेणं परिगयं, जहा-नातयं एतेण । तओ ततिओ पढिओ
सुकुमालग! भद्दलया !, रत्तिं हिंडणसीलगा!।
भयं ते णत्थि मंमूला, दीहपट्टाओ ते भयं ॥ (गा० ११५९) ताहे जाणति-एस अमच्चो ममं चेव मारेउकामो, कओ ममं पिता राता होउं संते भोए परिच्चइत्ता पुणो ते चेव पत्थेति ?, एस अमच्चो मं मारेउकामो एवं जतं करेइ । ताहे राया 10 अमच्चस्स सीसं छेत्तुं साहुस्स उवगंतुं सव्वं कहेइ खामेइ य ॥
अथ श्लोकत्रयस्याक्षरार्थः-आ-ईषद् आभिमुख्येन वा धावसि आधावसि, प्रकर्षेण पृष्ठतो वा धावसि प्रधावसि, मामपि च निरीक्षसे, लक्षितस्ते मया 'भावः' अभिप्रायो यथा 'यवं' यवधान्यं चरितुं प्रार्थयसि भो गईभ ! । द्वितीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयसीति प्रथमश्लोकः ॥ ११५७ ॥
15 इतो गता इतो गता, मृग्यमाणा न दृश्यते, अहमेतद् विजानामि 'अगडे' भूमिगृहे गर्तयां वा क्षिप्ता 'अडोलिका' उन्दोयिका नृपतिदुहिता वा । द्वितीयश्लोकः ॥ ११५८ ॥
मूषकस्य राज्ञश्च शरीरसौकुमार्यभावात् सुकुमारक ! इत्यामन्त्रणम् , “भद्दलग" त्ति भद्राकृते !, रात्रौ हिण्डनशील ! मूषकस्य दिवा मानुषावलोकनचकिततया राज्ञस्तु वीरचर्यया रात्रौ पर्यटनशीलत्वात् , भयं 'ते' तव नास्ति 'मन्मूलात्' मन्निमित्तात् किन्तु 'दीर्घपृष्ठात्' एकत्र सर्पात् अपरत्र 20 तु अमात्यात् 'ते' तव भयमिति तृतीयश्लोकः ॥ ११५९ ॥ ततः स राजर्षिश्चिन्तयति
सिक्खियव्वं मणसेणं, अवि जारिसतारिसं।
पेच्छ मुद्धसिलोरोहिं, जीवियं परिरक्खियं ॥ ११६० ॥ शिक्षितव्यं मनुष्येण अपि यादृशतादृशम् , पश्य मुग्धैरपि श्लोकैर्जीवितं परिरक्षितम् ॥ ११६० ॥ तथा
पुत्वविराहियसचिवे, सामच्छण रत्ति आगमो गुणणा।
नाओ मि सचिवघायण, खामण गमणं गुरुसगासे ॥ ११६१ ॥ पूर्व विराधितो यः सचिवस्तस्य राज्ञा सह 'सामच्छणं' पर्यालोचनम् । ततस्तयो रात्रौ तत्रागमः । तस्य च राजर्षेस्तदानीं पूर्वपठितश्लोकत्रयस्य गुणना । ततः 'ज्ञातोऽस्म्यहम् , नूनमतिशयज्ञानी मदीयः पिता, कुतो वा एष महात्मा पटप्रान्तलग्नतृणवद् लीलयैव राज्यं परित्यज्य भूय-30 स्तदङ्गीकारं कुरुते ? तदेष सर्वोऽप्यस्यैवाऽमात्यस्य कूटरचनाप्रपञ्चः' इति परिभाव्य सचिवघातनं कृत्वा खपितुः क्षामणं कृतवान् । ततस्तस्य राजर्षेः 'अहो! ते भगवन्तो मामनेकशो भणन्ति १ नायं मो० ले० ॥ २ राया होउं मो० ले० ॥ ३-४ एतद्गाथाद्विकं विशेषचूर्णी न दृश्यते ॥