________________
गजरात
आतुर
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्र [मासकल्पप्रकृते सूत्रम् १
जं सिलिपई निदायति, तं लाएति चलणेहि भूमीए । श्लीपदिदृष्टान्ती
एवमसंजमपंके, चरणसई लाइ अमुर्णितो ॥ ११४८ ॥ यथा गजः सरो-नद्यादौ मलापनयनार्थ स्नात्वोत्तीर्णः सन् बहुतरां रेणुं करेण गृहीत्वा स्वकीयेऽङ्गे क्षिपति, तथास्वाभाव्यात् ; तथा 'सुष्टुपि' अतिशयेनापि 'उद्यच्छमानः' उद्यम कुर्वाणः अज्ञानी 5 जीवः 'मलं' कर्मरजोलक्षणं चिनोति । एवं त्वमपि कर्ममलनिर्घातनार्थं प्रवजितः परं श्रुताध्ययन. मन्तरेण प्रवचनविरुद्धानि समाचरन् प्रत्युत भूयस्तरेण कर्मरजसाऽऽत्मानं गुण्डयिप्यसि ॥११४७॥
तथा श्लीपदनाम्ना रोगेण यस्य पादौ शूनौ-शिलावद् महाप्रमाणौ भवतः स एवंविधः श्लीपदी यथा क्षेत्रं 'निदायति' निदिणतीत्यर्थः, स च यदल्पमात्रं सस्यं निदायति तद भूयस्तरं 'चलनाभ्यां' पादाभ्यामाक्रम्य भूमौ लगयति मर्दयति च । एवं श्रुतपाठं विना "अमुणंतो" अजानन् 10 "चरणसयं" ति चरणसस्यम् 'असंयमपङ्के' पृथिव्याधुपमर्दकर्दमे लगयति, लगयित्वा च सकलमपि मर्दयति ॥ ११४८ ॥ एवमाचार्यैरुक्ते शिप्य आतुरदृष्टान्तमाह
भणइ जहा रोगत्तो, पुच्छति वेजं न संघियं पढइ । दृष्टान्तः
इय कम्मामयवेजे, पुच्छिय तुज्झे करिस्सामि ॥ ११४९ ।। स शिप्यो भणति-भगवन् ! यथा रोगातः पुरुषो वैद्यमेव पृच्छति न पुनर्वैद्यकसंहिता 15 पठति, एवमहमपि युप्मान् ‘कर्मामयवैद्यान्' कर्मरोगचिकित्सकान् पृष्ट्वा सर्वामपि क्रियां करिप्यामि, न पुनः श्रुतं पठिप्यामीति ॥ ११४९ ॥ गुरुराह---
भण्णइ न सो सयं चिय, करेति किरियं अपुच्छिउँ रोगी ।
नायचो अहिगारो, तुमं पि नाउं तहा कुणसु ॥ ११५० ॥ भण्यते अत्रोत्तरम्-यद्यपि नासौ रोगी वैद्यमपृष्ट्वा स्वयमेव क्रियां करोति तथाऽपि तस्य 20 'ज्ञातव्ये' क्रियायाः परिज्ञानेऽधिकारोऽस्ति यथा स वैद्यो भूयो भूयः प्रष्टव्यो न भवति । एवं यद्यपि त्वमस्मान् पृष्ट्वा सर्वामपि क्रियां करिष्यसि तथापि सूत्रमधीत्य षट्कायरक्षणविधि जानीहि, ज्ञात्वा च तथा कुरु यथा बहुशः प्रष्टव्यं न भवति ॥११५०॥ शिप्यः प्रतिभणति
दूरे तस्स तिगिच्छी, आउरपुच्छा उ जुजए तेणं ।।
सारेहिंति सहीणा, गुरुमादि जतो न हिज्जामि ॥ ११५१ ॥ 25 'तस्य' आतुरस्य 'दूरे' दूरवर्ती सः ‘चिकित्सी' वैद्यः अत आतुरस्य क्रियाया अपरिज्ञाने
वैद्यान्तिके पृच्छा युज्यते, मम पुनर्गुरव आदिशब्दाद् उपाध्यायादयः खाधीना एव, अतो ज्ञास्यन्ति ते भगवन्तः खयमेव मदीयं मुखलितम् , ज्ञात्वा च सम्यग् मां सारयिप्यन्ति, यत एवमत एवाहं 'नाधीये' न पठामीति ॥ ११५१ ॥ सूरिराह
आगाढकारणेहिं, गुरुमादी ते जया न होहिंति ।
तइया कहं नु काहिसि, जहा व सो अंधलो थेरो ॥ ११५२ ॥ आगाद्वैः कुलादिभिः कारणैर्यदा 'ते' गुर्वादयस्तव स्वाधीना न भविष्यन्ति तदा कथं नाम त्वं करिष्यसि ? यथा वाऽसावन्धः स्थविरः ॥ ११५२ ॥ तथाहि.. १ वति, अतस्त्वमपि सूत्रमधीय प° भा० ॥