________________
३५६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ प्रक्षेप्स्यति ? इत्यादि एवं ते विपरिणामिताः प्रव्रज्यामगृह्णन्तः षट् कायान् विराधयेयुः, अतः 'तेन' कथकेन संसारमहार्णवम् अभि-आभिमुख्येन प्रक्षिप्ता भवन्ति, चिरेण मुक्तिपदप्राप्तेः ॥११४०॥
एसेव य नूण कमो, वेरग्गगओ न रोयए तं च ।
दुहतो य निरणुकंपा, सुणि-पयस-तरच्छअट्ठवमा ॥११४१ ॥ 5. ते जीवा इत्थं चिन्तयेयुः-नूनमेष एवात्र 'क्रमः' परिपाटिः यत् पूर्व श्रावकधर्म स्पृष्ट्या पश्चाद् यतिधर्मः प्रतिपद्यते, अथवा पूर्व सम्यग्दर्शनमात्रमुररीकृत्य ततो देशविरतिरुपादीयते, यद्वा मद्य-मांसविरतिं स्पृष्ट्वा पश्चात् सम्यक्त्वं गृह्यते इति । स चारम्भबहुलतया गृहवासस्योपरि वैराग्यमुपगतः प्रव्रज्यां प्रतिपत्तुमायातः, स च धर्मकी श्राद्धधर्म प्ररूपयितुं लमः, तं चासौ
वैराग्याधिरूढमानसत्वाद् न रोचयति, ततो विपरिणम्य तच्चन्निकादिषु गच्छेत् । ते चैवमविधिना 10 धर्म कथयन्तः 'द्विधाऽपि निरनुकम्पाः' षण्णां कायानां तस्य चोपर्यनुकम्पारहिताः ।
"सुणि" त्ति वीरशुनिकादृष्टान्तः-यथा सा वीरशूनिका पूर्वमालमालैः परिखेदिता पश्चात् सद्भूतमपि नेच्छति, एवमत्रापि पूर्व श्राद्धधर्मे कथिते पश्चाद् यत्नतोऽभिधीयमानमपि श्रमणधर्ममसौ न प्रतिपद्यते । तथा “पयस" ति यथा कस्यापि प्राघूर्णकस्य पूर्व वासितभक्तं दत्तं ततः स उदरपूर
तद् भुक्तवान् , पश्चाद् घृत-मधुसंयुक्तं पायसमपि दीयमानं तस्य न रोचते । “तरच्छ अढुवम" 15 त्ति यथा तरक्षः-व्याघ्रविशेषः स पूर्वमम्नां ध्राणः पश्चादामिषमपि न रोचयति, एवमस्यापि श्रावकधर्मध्राणस्य यतिधर्मो न प्रतिभासते । यत एते दोषा अतो विधिनैव कथनीयम् ॥११४१।।
के पुनर्विधिकथने गुणाः ? उच्यतेविधिना
तित्थाणुसजणाए, आयहियाए परं समुद्धरनि । धर्मोपदेशदाने
मग्गप्पभावणाए, जइधम्मकहा अओ पढमं ।। ११४२ ॥ गुणाः 20 यतिधर्मकथा प्रथमतः क्रियमाणा तीर्थस्यानुसजनायै भवति, बहूनां जन्तूनां प्रव्रज्याप्रतिपत्तेः ।
तीर्थानुषजना च कृता आत्महिताय जायते । परं च प्रव्रज्याप्रदानेन संसारसागरादसौ समुद्धरैति । अत एव मार्गस्य-सम्यग्दर्शनादेः प्रभावनायै सा प्रभवति । यत एते गुणा अतो यतिधर्मकथा प्रथमं वरूपतो गुणतश्च कर्त्तव्या । तत्र स्वरूपतो यथा-"खंती य मद्दवऽजव, मुत्ती०" (दशवै० १० अ० नि० गा० २४८) इत्यादि । गुणतो यथा
नो दुष्कर्मप्रयासो न कुयुवति-सुत-स्वामिदुर्वाक्यदुःखं,
राजादौ न प्रणामोऽशन-वसन-धन-स्थानचिन्ता न चैव । ज्ञानाप्तिलोकपूजा प्रशमसुखरसः प्रेत्य मोक्षाद्यवाप्तिः,
श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः ! किं न यनं कुरुध्वम् ? ॥ इत्यादि । १°धर्म प्रति भा० विना ॥ २ “जहा सा वीरसुणिया अलिकमलिकेहि निरत्थीकया पच्छा सन्तयं पि नेच्छति, चिंतेइ-अलिक्कयं एयं; उवसंघारो वक्तव्यः । ‘पयस' त्ति जहा वा कस्सति पाहुणयस्स पुञ्वं दोसीणो दिण्णो, पच्छा घय-महसंजुत्तो पायसो, सो से न रोयति; उवसंहारो वक्तव्यः । अहवा 'सुणिपयस' त्ति जहा चम्मगारमुणिया पलिच्छेयाणं कया पच्छा पायसं पि नेच्छति; उवसंहारो वक्तव्यः । अहवा जहा 'तरच्छ” इति चूर्णौ ॥ ३ उच्यन्ते मो० ले० कां० त० ॥ ४ रति । एवं च भगवदुपदर्शितस्य मार्गम्य-सम्यग्दर्शनरूपम्य प्रभावनायै भवति । यत भा०॥
25