________________
भाष्यगाथाः ११३४-४०] प्रथम उद्देशः ।
३५५ र्येषां तानि भवसिद्धिकानि । यस्मिंश्च जीवलोकसरसि भगवतः प्रभावेन भव्यकमलानि बोधमनुवते तस्मिन् अभव्यकुमुदान्यपि कालसौकरिकप्रभृतीनि सन्ति परं तानि न प्रतिबुध्यन्ते, तथाखाभाव्यात् । यदवादि वादिमुख्येन
सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेप्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥
(सिद्धसेनीया द्वितीया द्वात्रिंशिका श्लोक १३ ) ॥ ११३७ ॥
अत्र परः प्राह
पुव्व तु होइ कहओ, पच्छा धम्मो उ उक्कमो किन्नु ।
तेण वि पुवं धम्मो, सुओ उ तम्हा कमो एमो ॥ ११३८ ॥ पूर्वं तावत् 'कथकः' धर्मोपदेष्टा भवति, पश्चात् तदुपदेशं श्रुत्वा धर्म उत्पद्यते, अतः 10 किमेवं 'स कीदृशः' इति प्रथमं धर्मखरूपमुद्दिश्य 'केन वा कथयितव्यः' इति कथकखरूपं पश्चादुद्दिशद्भिरुत्क्रमः क्रियते ? । गुरुराह-तेनापि कथकेन पूर्व गुरूणां समीपे धर्मः श्रुत एवं तस्मात् क्रम एषः नोत्कम इति ॥ ११३८ ॥ अयं च धर्म उपायेनैव कथयितव्यो नानुपायेन । आह के दोषा अनुपायकथने ? उच्यतेजइधर्म अकहेत्ता, अणु दुविधं सम्म मंसविरइं वा ।।
15 अविधिना अणुवासए कहिंते, चउजमला कालगा चउरो ॥ ११३९ ॥
धर्मकथने
दोषाः यः खलु मिथ्याप्टिरनुपासकस्तत्प्रथमतया धर्मश्रवणार्थमुपतिष्ठते तस्य यतिधर्मः कथयितव्यः । यदि यतिधर्ममकथयित्वा श्रावकसम्बन्धिनमणुधर्म कथयति तदा चत्वारो गुरवः तपसा कालेन च द्वाभ्यामपि गुरुकाः । यदा यतिधर्म प्रतिपत्तुं नोत्सहते तदा मूलोत्तरगुणभेदाद् द्विविधः श्राद्धधर्मः कथनीयः, सम्यक्त्वमूलानि द्वादश व्रतानीत्यर्थः । यदि श्राद्धधर्ममकथयित्वा सम्यग्दर्शनमात्रं कथ- 20 यति तदाऽपि चत्वारो गुरवः तपसा गुरवः कालेन लघवः । यदा श्राद्धधर्मं ग्रहीतुं न शक्नोति तदा यदि सम्यग्दर्शनमनुपदिश्य मद्य-मांसविरतिं कथयति तदा चत्वारो गुरवः तपसा लघवः कालेन गुरवः । यदा सम्यग्दर्शनमप्यङ्गीकर्तुं न शक्ष्यते तदा यदि मद्य-मांसविरतिमप्ररूप्यहिकमामुप्मिकं वा तद्विरतिफलं कथयति तदाऽपि चत्वारो गुरवः तपसा कालेन च लघवः । “चउजमला कालगा चटरो" ति चत्वारि यमलानि तपः-कालयुगललक्षणानि येषु ते चतुर्यमलाः, 25 चत्वारः कालकाश्चत्वारश्चतुर्गुरुका इत्यर्थः, आज्ञाभङ्गादयश्च दोषाः ॥ ११३९ ॥ अपि च--
जीवा अब्भुट्टिता, अविहीकहणाइ रंजिया संता।
अभिसंछ्ढा होती, संसारमहनवं तेणं ॥ ११४०॥ ते जीवाः प्रव्रज्यायामभ्युत्तिष्ठन्तोऽपि तदीयया अविधिकथनया रञ्जिताः सन्तश्चिन्तयन्ति– यदि श्रावकधर्मेणापि कामभोगान् भुञ्जानैः सुगतिरवाप्यते ततः किमनया सिकताकवलनिराखादया 30 प्रत्रज्यया ?, एवं यदि सम्यग्दर्शनमात्रेणापि सुगतिरासाद्यते तर्हि को नामात्मानं विरतिशृङ्खलायां
१ नेयं गाथा विशेषचूर्णिकृताऽऽहता ॥ २°धं मजमंस ता० ॥ ३°धोऽणुधर्मः भा० ॥ ४ मते मो. डे० विना ॥