________________
३५४
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ मेवावबुध्य प्रव्रज्या भवेत् । तत्राल्पवक्तव्यत्वात् प्रथममभिसमागम उच्यते-सो अभिसमागमो जातिस्मरणादिकः सनिमित्तकोऽनिमित्तको वा द्रष्टव्यः । तत्र यद् बाह्यं निमित्तमुद्दिश्य जातिस्मरणमुपजायते तत् सनिमित्तकम् , यथा वल्कलचीरिप्रभृतीनाम् । यत् पुनरेवमेव तदावारककर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकम् , यथा खयम्बुद्ध-कपिलादीनाम् । एतेन जातिस्मरणेन 5 आदिग्रहणात् श्रावकम्य गुणप्रत्ययप्रभवेणावधिज्ञानेन अन्यतीर्थिकस्य वा विभङ्गज्ञानेन प्रव्रज्याप्रतिपत्तिः सम्भवति ॥ ११३३ ॥ गतमभिसमेत्यद्वारम् । अथ श्रुत्वेति द्वारं विवरीषुराह
सोचा उ होइ धम्मं, स केरिसो केण वा कहेयव्यो।
के तस्स गुणा वुत्ता, दोसा अणुवायकहणाए ॥११३४ ॥ धर्ममाचार्यादीनामन्तिके श्रुत्वा प्रव्रज्या भवति । अत्र शिप्यः पृच्छति-स धर्मः कीदृशः ? 10 केन वा कथयितव्यः ? के वा तस्योपायकथने गुणाः प्रोक्ताः ? के वा अनुपायकथने दोषाः ?
इति ॥ ११३४ ॥ तत्र कीदृशः ? केन वा कथयितव्यः ? इति प्रश्ने निर्वचनमाहउपदेष्टव्यो
संसारदुक्खमहणो, वियोहओ भवियपुंडरीयाणं । धर्मः धर्मोपदेशाधि
धम्मो जिणपन्नत्तो, पगप्पजइणा कहेयव्यो । ११३५ ॥ कारिणश्च ____ संसार एव जन्म-जरा-मरणादिदुःखनिबन्धनत्वाद् दुःखं संसारस्य वा दुःखानि-शारीर-मान
15 सिकलक्षणानि तस्य तेषां वा मथनः-विनाशकः, तथा भव्या एव विनयादिविमलगुणपरिमल
योगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि-श्वेतसरोरुहाणि तेषां विशेषेण मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः-सम्यग्दर्शनादिविकाशकारी, ईदृशो जिनप्रज्ञप्तो धर्मः 'प्रकल्पयतिना' निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः । स हि संविमगीतार्थतयोत्स
र्गा-ऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणयाऽऽत्मानं परं वा दीर्घभव20 भ्रमणभाजनमातनोतीति ॥ ११३५ ॥ ____ परः प्राह–किमेवंविधोऽपि भागवतो धर्म उपदिश्यमानः केषाञ्चिद् बोधं न जनयति येनैवमभिधीयते "भव्यपुण्डरीकाणां विबोधकः' ? इति, अत्रोच्यते
जह सूरस्स पभावं, द₹ वरकमलपोंडरीयाई । बुझंति उदयकाले, तत्थ उ कुमुदा न चुझंति ॥ ११३६ ॥ एवं भवसिद्धीया, जिणवरसूरस्सुतिप्पभावेणं ।
बुझंति भवियकमला, अभवियकुमुदा न बुझंति ॥ ११३७ ॥ यथा सूर्यस्य 'प्रभावं' प्रभापटलरूपं दृष्ट्वा सरसि स्थितानि वरकमलपुण्डरीकाणि 'उदयकाले' प्रभाते बुध्यन्ते । तत्रैव च सरसि कुमुदान्यपि सन्ति परं तानि न बुध्यन्ते ॥ ११३६ ॥
'एवम्' अनेनैव दृष्टान्तेन जिनवरसूर्यस्य या श्रुतिः-आगमः प्रभापटलकल्पस्तत्प्रभावेन 30 भव्यकमलानि 'बुध्यन्ते' सम्यक्त्वादिविकाशमासादयन्ति । तानि च
___"भव्या वि ते अणंता, जे मुत्तिसुहं न पावंति ।" इति वचनादसम्भावनीयसिद्धिगमनान्यपि भवेयुरित्यतस्तद्व्यवच्छेदार्थमाह-भवा-भाविनी सिद्धि
१ धर्म तीर्थकगदीनामन्तिके भा० ॥ २ °लजनितं दृ' भा० ॥