________________
भाप्यगाथाः ११२८-३३] प्रथम उद्देशः । . .
३५३ वर्षे षट्षष्ट्यधिकानि त्रीणि शतानि भवन्ति । पञ्च संवत्सरा युगमिति कृत्वा तानि पञ्चभिर्गुण्यन्ते जातान्यष्टादश शतानि त्रिंशानि दिवसानाम् । एतेषां नक्षत्रमासदिवसानयनाय सप्तषष्टियुगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः १। तथा चन्द्रमासदिवसानयनाय द्वाषष्टियुगे चन्द्रमासा इति द्वाषष्ट्या तस्यैव युगदिनराशेर्भागो हियते, लब्धान्येकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागाः २ । एवं युग-5 दिवसानामेवैकषष्टियुगे कर्ममासा इत्येकषष्ट्या भागे हृते लब्धानि कर्ममासस्य निशदिनानि ३ । तथा युगे षष्टिः सूर्यमासा इति षष्ट्या युगदिनानां भागे हृते लब्धाः सूर्यमासदिवसास्त्रिंशदहोरात्रस्याद्धं च ४ । तथा युगदिवसा एव अभिवर्द्धितमासदिवसानयनाय त्रयोदशगुणाः क्रियन्ते जातानि त्रयोविंशतिसहस्राणि सप्त शतानि नवत्यधिकानि, एषां चतुश्चत्वारिंशैः सप्तभिः शतैर्भागो ह्रियते लब्धा एकत्रिंशदिवसाः, शेषाण्यवतिष्ठन्ते षड्विंशत्यधिकानि सप्तशतानि चतुश्चत्वा-10 रिंशसप्तशतभागानाम्, ३१ ४३६ नंत उभयेषामप्यानां पझिरपवर्तना क्रियते जातमेकविंशं शतं चतुर्विशत्युत्तरशतभागानामिति ५॥
उक्ताः पञ्चापि कालमासाः । भावमासो नोआगमतः 'मूलादियुतः' मूल-कन्द-स्कन्धादिरूपतया माषप्रायोग्याणि कर्माणि वेदयन् माषजीवोऽवगन्तव्यः । प्रकृतं पुनरत्र 'कर्ममासेन' ऋतुमासेनेत्यर्थः । ततः "अबाहिरियंसि कप्पइ निग्गंथाणं एकं मासं वत्थए" ति (सू० ६) 15 किमुक्तं भवति ?--त्रिंशदहोरात्रमानमेकं ऋतुमासं कल्पते वस्तुमिति ॥ ११३० ॥ प्ररूपितं मासपदम । अथ येषां मासकल्पेन विहारो भवति तान् नामग्राहं गृहीत्वा तद्विधिमभिधित्सुराह,
जिण सुद्ध अहालंदे. गच्छे मासो तहेव अजाणं । एएसिं नाणत्तं, वोच्छामि अहाणुपुबीए ॥ ११३१ ।।
पविहाजिनकल्पिकानां शुद्धपरिहारकाणां यथालन्दकल्पिकानां ‘गच्छवासिनां स्थविरकल्पिकाना- 20 मित्यर्थः । तथैव 'आर्याणां' साध्वीनां यथा येषां मासकल्पो भवति तथैतेषां सर्वेषामपि नानात्वं वक्ष्यामि 'यथानुपूर्व्या यथोद्दिष्टपरिपाट्या ॥ ११३१ ॥ तत्र प्रथमं जिनकल्पिकानाश्रित्याहपव्वजा सिक्खापयमत्थग्गहणं च अनियओ वासो।।
जिनकनिष्फत्ती य विहारो, सामायारी ठिई चेव ॥ ११३२ ॥
ल्पिकाः प्रथमं प्रव्रज्या वक्तव्या, कथमसौ जिनकल्पिकः प्रव्रजितः ? इति । ततः 'शिक्षापदं' ग्रह-25 णा-ऽऽसेवनाविषयम् । ततो ग्रहणशिक्षयाऽधीतसूत्रस्यार्थग्रहणम् । ततो नानादेशदर्शनं कुर्वतो यथा अनियतो वासो भवति । ततः शिष्याणां निष्पत्तिः । तदनन्तरं विहारः । ततो जिनकल्पं प्रतिपन्नस्य सामाचारी । ततस्तस्यैव 'स्थितिः' क्षेत्र-कालादिकाऽभिधातव्येति गाथासमुदायार्थः ॥ ११३२ ॥ अवयवार्थ प्रतिद्वारमभिधित्सुः प्रथमतः प्रत्रज्याद्वारमाहसोचाऽभिसमेचा वा, पव्यज्जा अभिसमागमो तत्थ ।
30जनकजाइस्सरणाईओ, सनिमित्तमनिमित्तओ वा वि ॥ ११३३ ॥
हिपकानां 'श्रुत्वा तीर्थकर-गणधरादीनां धर्मदेशनां निशम्य 'अभिसमेत्य वा' सह सन्मत्यादिना स्वय- अत्रज्या १ भागो ह्रियते भा० ॥ २ शत्सप्त भा० बिना ॥ ३ तनाम भा. विना ॥
मारक
रिणः