________________
नक्षत्र
चन्द्रमासादीनां
निरूपणम्
सनिर्युक्ति-लघुभाग्य वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
द्रव्यमासः “भविउ " ति माषत्वेन य उत्पत्स्यते, स चैकभविको बद्धायुप्कोऽभिमुखनामगोत्रश्चेति त्रिधा, एष त्रिविधोऽपि प्राकृतशैल्या द्रव्यमासो भण्यते, एवमुत्तरत्रापि । अथवा द्रव्य - मासो द्विधा मूलोत्तरगुणनिर्वर्त्तितभेदात् । तत्र यो जीवविप्रमुक्तो माषः स मूलगुणनिर्वर्तितः, यस्तु चित्रकर्मादौ माषस्तम्ब आलिखितः स उत्तरगुणनिर्वर्तितः । क्षेत्रमासस्तु यस्मिन् क्षेत्रे मासB कैल्पस्य वर्णना क्रियते माषो वा वाप्यते । कालमासः पुनर्यस्मिन् काले माषो वाप्यते मासकल्पो वा वर्ण्यते । अथवा कालमासः श्रावणादिः । यद्वा कालमासो नक्षत्रादिकः पञ्चविधः । तद्यथानक्षत्रमासश्चन्द्रमासः ऋतुमासः आदित्यमासः अभिवर्द्धितमासः ॥ ११२७ ॥
अमीषामेव परिमाणमाह
नक्खतो खलु मासो, सत्तावीसं हैवंतऽहोरत्ता । भागा य एकवीसं, सत्तट्ठिकरण एणं ।। ११२८ ॥ अणत्तीसं चंदो, विसट्ठि भागा य हुंति बत्तीसा । कम्मो तीसइदिवसो, तीसा अद्धं च आइचो ॥ ११२९ ॥ अभिवढि इकतीसा, चउवीसं भागसयं च तिगहीणं । भावे मूलाइजुओ, पगयं पुण कम्ममासेणं ।। ११३० ॥
15 नक्षत्रेषु भवो नाक्षत्रः, स खलु मासः सप्तविंशतिरहोरात्राणि सप्तषष्टीकृतेन च्छेदेन च्छिन्नस्याहोरात्रस्यैकविंशतिः सप्तषष्टा भागाः । तथाहि-- चन्द्रस्य भरण्याद्री - श्लेषा-स्वाति ज्येष्ठा-शतभिषग्नामानि षड् नक्षत्राणि पञ्चदशमुहूर्त्तभोगीनि, तिस्र उत्तराः पुनर्वसू रोहिणी विशाखा ि षट् पञ्चचत्वारिंशन्मुहूर्त्तभोगीनि, शेषाणि तु पञ्चदश नक्षत्राणि त्रिंशन्मुहूर्त्तानीति जातानि सर्वसङ्ख्यया मुहूर्त्तानामष्ट शतानि दशोत्तराणि; एतेषां च त्रिंशन्मुहूर्तेरहोरात्रमिति कृत्वा त्रिंशता 20भागो ह्रियते लब्धानि सप्तविंशतिरहोरात्राणि, अभिजिद्भोगश्चैकविंशतिः सप्तषष्टा भागा इति तैरम्यधिकानि सप्तविंशति रहोरात्राणि सकलनक्षत्रमण्डलोपभोगकालो नक्षत्रमास उच्यते १ ॥ ११२८ ॥
चन्द्रे भवश्चान्द्रः कृष्णपक्षप्रतिपद आरभ्य यावत् पौर्णमासी परिसमाप्तिस्तावत्कालमानः; स च एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य २ । कर्ममासः ऋतुमास इत्येकोऽर्थः, त्रिंशदिवसप्रमाणः ३ । आदित्यमास स्त्रिंशदहोरात्राणि रात्रिन्दिवस्य चार्द्धम्, दक्षिणायनस्यो25 सरायणस्य वा षष्ठभागमान इत्यर्थः ४ ॥ ११२९ ॥
10
३५२
30
अभिवर्द्धितो नाम मुख्यतः त्रयोदशचन्द्रमासप्रमाणः संवत्सरः परं तद्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचाराद् अभिवर्द्धितः, स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागी - कृतस्य चाहोरात्रस्य त्रिकहीनं चतुर्विंशं शतं भागानां भवति, एकविंश[ शत]मिति भावः ५ । एतेषां चानयनाय इयं करणगाथा --
जुगमासेहिँउ भइए, जुगम्मि लद्धं हविज्ज नायव्वं ।
मासाणं पंचह वि, एयं इंदियपमाणं ॥
इह सूर्यस्य दक्षिणमुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकम् । द्वे अयने वर्षमिति कृत्वा
१ कल्पः क्रियते वर्ण्यते वा । काल भा० ॥ २ हवंति अहो' डे० ता० विना ॥