________________
10
15
भाष्यगाथाः १११८-११२७] प्रथम उद्देशः ।
३५१ ग्रामादिकं परिक्षिप्य व्यवस्थिताः, स मिश्रपरिक्षेपः । अचित्तपरिक्षेपस्त्वयं भवति ॥ ११२२ ॥ तमेवाह
पासाणिदृग-मट्टिय-खोड-कडग-कंटिगा भवे दव्वे ।
खाइय-सर-नइ-गड्डा-पव्यय-दुग्गाणि खेत्तम्मि ॥ ११२३ ।। पाषाणमयः प्राकारो यथा द्वारिकायाम् , इष्टकामयः प्राकारो ययाऽऽनन्दपुर, मृत्तिकामयो 5 यथा सुमनोमुखनगरे, “खोड' त्ति काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकाः-वंशदलादिमयाः कण्टिकाः-बुब्बूलादिसम्बन्धिन्यः तन्मयो वा परिक्षेपो ग्रामादेर्भवति, एष सर्वोऽपि द्रव्यपरिक्षेपः । क्षेत्रपरिक्षेपम्तु खतिका वा सरो वा नदी वा गर्ता वा पर्वतो वा दुर्गाणि वा-जलदुर्गादीनि पर्वता एव दुर्गाणि वा, एतानि नगरादिकं परिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते ॥ ११२३ ॥ कालपरिक्षेपमाह
वासारत्ते अइपाणियं ति गिम्हे अपाणियं नचा।
कालेण परिक्खित्तं, तेण तमन्ने परिहरंति ॥ ११२४ ॥ वर्षारात्रेऽतिपानीयमिति कृत्वा 'ग्रीमे' उप्णकाले अपानीयमिति कृत्वा रोद्धं न शक्यत इति ज्ञात्वा तेन कारणेन तद् नगरादिकम् 'अन्ये' परराष्ट्रराजानः परिहरन्ति तत् कालपरिक्षिप्तम् ॥ ११२४ ॥ भावपरिक्षेपमाह-----
नचा नरवइणो सत्त-सार-बुद्धी-परकमविसेसे ।
भावेण परिक्खित्तं, तेण तमन्ने परिहरंति ॥ ११२५ ॥ सत्त्वं-धैर्यम् ; सारो द्विधा--बाह्य आभ्यन्तरश्च, बाह्यो बल-वाहनादिः, आभ्यन्तरो रत्न-सुवर्णादिः; बुद्धिरौत्पत्तिक्यादिभेदाच्चतुर्विधा यथा अभयकुमारस्य; पराक्रमः-औरसबलात्मकः, एतान् सत्त्व-सार-बुद्धि-पराक्रमविशेषान् विवक्षितनरपतेः सम्बन्धिनो ज्ञात्वा 'यद्यनेन सार्द्ध विग्र-20 हमारप्स्यामहे तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दाः' इति परिभाव्य तदीयं नगरं यद् 'अन्ये' राजानः परिहरन्ति तत् तदीयेन सत्त्व-सारादिना भावेन परिक्षिप्तं प्रतिपत्तव्यम् ॥ ११२५ ॥ व्याख्यातं परिक्षेपपदम् । अत्र द्रव्यपरिक्षेपेण प्रकृतम् । अथ मासपदनिक्षेपमाह
नाम ठवणा दविए, खित्ते काले तहेव भावे य । [स.नि. १४३] मासपमासस्स परूवणया, पगयं पुण कालमासेणं ॥११२६ ॥
पणम् नाममासः स्थापनामासो द्रव्यमासः क्षेत्रमासः कालमासो भावमासश्चेति षड्डिधा मासस्य प्ररूपणा कर्त्तव्या । प्रकृतं पुनरत्र सूत्रे कालमासेन ॥ ११२६ ॥ तत्र नाम-स्थापने क्षुण्णत्वाद् व्युदस्य द्रव्यमासमाह
दव्वे भवितो निव्वत्तिओ उ खेत्तं तु जम्मि वण्णणया ।
कालो जहि वणिजइ, नक्खत्तादी व पंचविहो ॥ ११२७॥ 30 १ नद त• कां० ॥ २ °मस्य भव भा० ॥. ३ खातिका-पानीयपरिपूर्णा परिखा, सरोनदी-गर्ताः प्रतीताः, पर्वता एव दुरारोहतया दुर्गाणि-विषमस्थानानि, एतानि भा० ॥ ४ रोढुं न भा. मो० ले० ॥
25दनिरू