________________
३५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ 'अविपरीतः' सम्यग्वस्तुतत्त्ववेदी वदेत् ? अपि तु नैवेत्यभिप्रायः ॥१११७॥ कुतः ? इत्याह
जइ वि हु सम्मुप्पाओ, कासइ दद्गुण निण्हए होजा ।
मिच्छत्तहयसईया, तहावि ते वजणिज्जा उ ॥ १११८ ॥ यद्यपि हि निह्नवानपि दृष्ट्वा कस्यचित् सम्यग्दर्शनोत्पादो भवेत् तथापि ते मिथ्यात्वम्-अतत्त्वे 5 तत्त्वाभिनिवेशः तेन हता-दूषिता स्मृतिः-सर्वज्ञवचनसंस्कारलक्षणा दुर्वातेन सस्यवद् येषां ते मिथ्यात्वहतस्मृतिका (ग्रन्थानम्-४५००) एवंविधाश्च बह्वीभिरसद्भावोद्भावनाभिरस्तोकलोकचेतांसि विपरिणामयन्तः पूर्वलब्धमपि बोधिबीजमात्मनोऽपरेषां चोपनन्तो दूरंदूरेण वर्जनीया इति । यतश्चैवमतो नैते भावग्रामतया भवितुमर्हन्तीति प्रकृतम् ॥ १११८ ॥ ___ अथात्र कतरेण ग्रामेणाधिकारः ? उच्यते10 आहार-उवहि-सयणा-ऽऽसणोवभोगेसु जो उ पाउग्गो ।
एयं वयंति गाम, जेणऽहिगारो इहं सुत्ते ॥ १११९ ॥ आहारोपधी प्रतीतौ, शयनं-संस्तारकः, आसनं-पीठादि, एतेषामुपभोगेषु यः प्रायोग्यः । किमुक्तं भवति ?–एतानि यत्र कल्प्यानि प्राप्यन्ते तमेनं ग्रामं वदन्ति' प्ररूपयन्ति सूरयः,
येन 'अत्र' सूत्रे 'अधिकारः' प्रकृतमिति ॥ १११९ ॥ 15 व्याख्यातं ग्रामपदम् । अथ नगरादिपदान्यतिदिशन्नाह
__एमेव य नगरादी, नेयव्या होंति आणुपुवीए ।
जं जं जुजइ जत्थ उ, जोएअव्वं तगं तत्थ ॥ ११२० ॥ यथा ग्रामपदं प्ररूपितम् एवमेव नगरादीन्यपि पदान्यानुपूर्व्या नेतव्यानि । एतदेव व्याचष्टेयद् यद् नाम-स्थापना-द्रव्य-भावादिकं यत्र नगरादौ युज्यते तत् तत्र योजयितव्यमिति ॥११२०॥ 20 अथ परिक्षेपपदं निक्षिपन्नाह
नामं ठवणा दविए, खित्ते काले तहेव भावे य ।
एसो उ परिक्खेवे, निक्खेवो छव्विहो होइ ॥ ११२१ ॥ नामपरिक्षेपः स्थापनापरिक्षेपो द्रव्यपरिक्षेपः क्षेत्रपरिक्षेपः कालपरिक्षेपो भावपरिक्षेपः । एष परिक्षेपे निक्षेपः षड्विधो भवति ॥ ११२१ ॥ 25 तत्र नाम-स्थापने गतार्थे । द्रव्यपरिक्षेपं प्रतिपादयति
सचित्तादी दव्वे, सञ्चित्तो दुपयमायगो तिविहो ।
मीसो देसचियादी, अचित्तो होइमो तत्थ ॥ ११२२ ॥ द्रव्यपरिक्षेपस्त्रिविधः----'सच्चित्तादिः' सच्चित्तोऽचित्तो मिश्रश्चेत्यर्थः । सच्चित्तस्त्रिविधो द्विपदचतुष्पदा-ऽपदभेदात् । तत्र ग्राम-नगरादेर्यद् मनुष्यैः परिवेष्टनं स द्विपदपरिक्षेपः, यत्तु तुरङ्गम30 हस्त्यादिभिः स चतुप्पदपरिक्षेपः, यत् पुनर्वृक्षैः सोऽपदपरिक्षेपः । मिश्रोऽप्येवमेव त्रिविधः, परं "देसचितादि" त्ति देशे-एकदेशे उपचितः-सचेतनः, आदिशब्दाद् देशे अपचितः-व्यपगतचैतन्यः । किमुक्तं भवति ?-यत्रैके मनुष्या-ऽश्व-हम्त्यादयो जीवन्ति, अपरे तु मृताः परं १कल्पानि मो• विना ॥ २ °न्यप्यानु° मो० ले. कां० ॥ ३ °सवि॰ कां० त० विना ॥