________________
प्रथम उद्देशः ।
तित्थगरा जिण चउदस, दस भिन्ने संविग्ग तह असंविग्गे । सारूविय वय दंसण, पडिमाओ भावगामो उ ॥ १११४
‘तीर्थकराः’ अर्हन्तः, ‘जिनाः ' सामान्यकेवलिनः अवधि - मनः पर्यायजिना वा, चतुर्दशपूर्विणो दशपूर्विणश्च प्रतीताः, “भिन्ने” त्ति असम्पूर्णदशपूर्वघारिणः, 'संविग्नाः ' उद्यतविहारिणः, 'असंविग्नाः' तद्विपरीताः, 'सारूपिकाः नाम' श्वेतवाससः क्षुरमुण्डितशिरसो भिक्षाटनोपजीविनः पश्चात्कृतविशेषाः, "वय" त्ति प्रतिपन्नाणुव्रताः श्रावकाः, "दंसण" त्ति दर्शन श्रावकाः - अविरत - सम्यग्दृष्टय इत्यर्थः, ‘प्रतिमाः' अर्हद्विम्बानि । एष सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूतिसद्भावात् । अत्र परः प्राह – ननु युक्तं तीर्थकरादीनां ज्ञानादिरत्नत्रयसम्पत्समन्वितायां भावप्रामत्वम्, ये पुनरसंविग्नादयस्तेषां कथमिव भावग्रामत्वमुपपद्यते ? नैष दोष:, तेषामपि यथावस्थितप्ररूपणाकारिणां पार्श्वतो यथोक्तं धर्ममाकर्ण्य सम्यग्दर्शनादिलाभ उदयते, अतस्तेषामपि 10 भावग्रामत्वमुपपद्यत एवेति कृतं प्रसङ्गेन ।। १११४ ॥ तीर्थकरा इति पदं विशेषतो भावयति - चरण- करणसंपन्ना, परीसहपरायगा महाभागा ।
तित्थगरा भगवंतो, भावेण उ एस गामविही ॥ १११५ ॥
चरण-करणसम्पन्नाः परीषहपराजेतारो महाभागास्तीर्थकरा भगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः । एवं जिनादिष्वपि भावनीयम् । 15 एष सर्वोऽपि भोवग्रामविधिर्मन्तव्यः ॥ १११५ ।। प्रतिमा अधिकृत्य भावनामाह-जा सम्मभावियाओ, पडिमा इयरा न भावगामो उ ।
भावो जइ नत्थि तर्हि, नणु कारण कज्जउवयारो ॥। १११६ ॥
याः ‘सम्यग्भाविताः’ सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न 'इतराः ' मिथ्यादृष्टिपरिगृहीताः । आह सम्यम्भाविता अपि प्रतिमास्ताव [ द्] ज्ञानादिभावशून्याः, ततो यदि 20 ज्ञानादिरूपो भावस्तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति : उच्यते-ता अपि दृष्ट्वा भव्यजीवस्याऽऽर्द्रककुमारादेरिव सम्यग्दर्शनाद्युदीयमानमुपलभ्यते ततो ननु कारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते ॥ १११६ ।। अत्र परः प्राह
एवं खु भावगामो, णिण्हगमाई वि जह मयं तुब्भं ।
अमवच्चं को णु हु, अव्विवरीतो वदिजाहिं ।। १११७ ॥
यथा सम्यग्भावितप्रतिमानां कारणे कार्योपचाराद् भावग्रामत्वं युष्माकं 'मतम्' अभिप्रेतम्, एवमेव निह्नवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति तेषामपि दर्शनेन कस्यचित् सम्यग्दर्शनोत्पादात् । सूरिराह – 'एतत्' त्वदुक्तमवाच्यवचनं भवन्तमसमञ्जसप्रलापिनं विना को नु
भाप्यगाथाः १११२-१७]
३४९
१
यदा सम्यग्दर्शनादिलाभ उदयते तदा तेषामपि भा० ॥ २ "जा सम्म० गाहा । सम्मभावियातो य पडिमाओ ण वि इतरीओ | आह कहं मिच्छद्दिीपरिग्गहिताओ पडिमातो भावगामो ग भवति ? उच्यते—तत्र ज्ञानादिभावो नास्ति । आह् ननु कारणे कार्यवदुपचार इति कृत्वा ताओ विद कस्सइ सम्मुप्पातो होजा तो कथं ताओ भावगामो ण भवन्ति ? । आयरिओ भणति — एवं खु भाव० गाधाद्वयं कण्ठ्यम् ॥” इति चूर्णौ । विशेषचूर्णावपि प्राय एतत्सम एव पाठः ॥ ३ एव खलु भा ता० ॥
25