________________
३४८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ दार्थज्ञस्य ग्रामाधिपतेर्वा यत् संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति ॥११११॥ गतं द्रव्यग्रामद्वारम् । अथ भूतादिप्रामभेदान् भावयति
चउदसविहो पुण भवे, भूतग्गामो तिहा उ आतोजो।
सोतादिदियगामो, तिविहा पुरिसा पिउग्गामो ॥ १११२ ॥ B भूताः-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः, स चतुर्दशविधः । तथा चाह
एगिदिय सुहुमियरा, सन्नियर पणिंदिया य सबि-ति-चऊ ।
पज्जत्ताऽपज्जत्ता, भेएणं चउदस ग्गामा ॥ एकेन्द्रिया द्विविधाः-सूक्ष्मा बादराश्च । सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्माः । बादरनामकर्मोदयवर्तिनो बादराः । द्वीन्द्रियाः-कृम्यादयः । त्रीन्द्रियाः-कुन्थु-पिपीलिकादयः । चतुरिन्द्रिया 10 भ्रमरादयः । पञ्चेन्द्रिया द्विविधाः-संज्ञिनोऽसंज्ञिनश्च । संज्ञिनः-गर्भजतिर्यङ्-मनुष्या देव-नार
काश्च । असंज्ञिनः सम्मूच्छिमास्तिर्यङ्-मनुष्याः । एते च खयोग्यपर्याप्तिभिः पर्याप्ता वा स्युरपर्याप्ता वा । पर्याप्ति म शक्तिः, सा चाहार-शरीरेन्द्रिय-प्राणापान-भाषा-मनःपर्याप्तिभेदात् पोढा । तत्र यया शक्त्या करणभूतया भुक्तमाहारं खल-रसरूपतया करोति सा आहारपर्याप्तिः । यया तु
रसीभूतमाहारं धातुरूपतया परिणमयति सा शरीरपर्याप्तिः । यया धातुरूपतया परिणमितादाहा15 रादिन्द्रियप्रायोम्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थों
भवति सा इन्द्रियपर्याप्तिः । यया पुनरुच्छास-भाषा-मनःप्रायोग्याणि दलिकान्यादाय यथाक्रममुच्छ्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणमय्याऽऽलम्ब्य च मुञ्चति सा क्रमेण प्राणापानपर्याप्ति षापर्याप्तिर्मनःपर्याप्तिः । एताश्च यथाक्रममेकेन्द्रियाणां चतस्रः, द्वीन्द्रियादीनां सम्मूच्छिमतिया-मनुष्यान्तानां पञ्च, संज्ञिपञ्चेन्द्रियाणां च षड् भवन्ति । एवं च पूर्वोक्ताः सप्तापि भेदाः 20 पर्याप्तापर्याप्तभेदाद् द्विधा भिद्यमानाश्चतुर्दश भवन्ति । एष चतुर्दशविधो भूतग्रामः ॥
आतोद्यनामस्तु विधा—षड्जग्रामो मध्यमग्रामो गन्धारग्रामश्च । एतेषां च खरूपमनुयोगद्वारशास्त्राद् अवसेयम् (पत्र १३०-१)। इन्द्रियग्रामः श्रोत्रादीनामिन्द्रियाणां समुदायः, स च पञ्चेन्द्रियाणां सम्पूर्णः, चतुस्त्रिोकेन्द्रियाणां यथाक्रममेकद्वित्रिचतुःसद्ध्यैरिन्द्रियै,न इति । पितृग्रामस्तु त्रिविधाः पुरुषाः । तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्चेति ॥१११२॥
तिरिया-ऽमर-नरइत्थी, माउग्गामं पि तिविहमिच्छंति ।
नाणाइतिगं भावे, जओ व तेसिं समुप्पत्ती ॥१११३॥ तिर्यम्योनिकस्त्रियोऽमराः-देवास्तेषां स्त्रियो नराः-मनुष्यास्तेषां च स्त्रिय इति मातृप्राममपि त्रिविधमिच्छन्ति पूर्वसूरयः । आह किमेवं स्त्री-पुरुषाणां मातृ-पितृप्रामसंज्ञा विधीयते ? उच्यतेसंज्ञासूत्रोपयोगार्थम् । तथा चाऽऽचारप्रकल्पाध्ययने षष्ठोद्देशके सूत्रम्30 "जे भिक्खू माउग्गामं मेहुणवडियाए विण्णवेइ" (सूत्रम् १) इत्यादि । तथा-"जा भिक्खुणी पिउग्गामं विष्णवेइ" इत्यादि ।
भावनामस्तु नो आगमतः 'ज्ञानादित्रिकं' ज्ञान-दर्शन-चारित्रसमवायरूपम् ; यतो वा 'तेषां' ज्ञानादीनामुत्पत्तिर्भवति ते भावग्रामतया ज्ञातव्याः ॥ १११३ ॥ के पुनस्ते ? उच्यते