SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 15 भाप्यगाथाः ११०४-११] प्रथम उद्देशः । ३४७ ततोऽसौ चतुर्विदिग्वर्तिभिवृक्षैः समचतुरस्रतया परिच्छिद्यमानत्वादक्षपाटकसंस्थितः ॥ ११०७॥ वट्टागारठिएहिं, रुयगो पुण वेढिओ तरुवरेहि। तिकोणो कासवओ, छुरघरगं कासवं विती ॥ ११०८॥ यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद् वृत्ताकारल्यवस्थितैर्वृक्षवेष्टितस्तदा रुचकसंस्थितः । यस्तु ग्राम एव त्रिकोणतया निविष्टो वृक्षा वा त्रयो यस्य बहिन्यस्राः स्थिताः । एकतो द्वावन्यतस्त्वेक इत्यर्थः, एष उभयथाऽपि काश्यपसंस्थितः । काश्यपं पुनर्नापितस्य सम्बन्धि क्षुरगृहं ब्रुवते, तद् यथा व्यस्रं भवत्येवमयमपि ग्राम इति ॥ ११०८॥ भावितानि सर्वाण्यपि संस्थानानि । अथ को नयः किं संस्थानमिच्छति ? इति भाव्यते पढमेत्थ पडहछेदं, आ कासव कडग-कोट्टिमं तइओ। नाणिं आहिपतिं वा, सद्दनया तिनि इच्छंति ॥ ११०९ ॥ 10 प्रथमोऽत्र नैगमनयः, स पटहच्छेदलक्षणं संस्थानं प्रतिपद्यते । सङ्ग्रहोऽप्येवमेव मन्यत इत्यत्रैवान्तर्भाव्यते । व्यवहारस्तु भित्तिसंस्थानादारभ्य आ काश्यपसंस्थानं मन्यते । 'तृतीयः' ऋजुसूत्रः, सः कटकानां-तृणादिमयानां कुट्टिमानां वा-पाषाणादिबद्धभूमिकानां यत् संस्थानं तद् मन्यते । 'त्रयस्तु' शब्दनया ज्ञानिनमधिपतिं वा ग्रामसंस्थानस्वामित्वेनेच्छन्ति ॥ ११०९ ॥ एनामेव नियुक्तिगाथा व्यक्तीकुर्वन्नाह संगहियमसंगहिओ, संगहिओ तिविह मल्लयं नियमा। . भित्तादी जो कासवों, असंगहो बेति संठाणं ॥ १११०॥ नैगमो द्विधा-साङ्ग्रहिकोऽसाङ्ग्रहिकश्च । सङ्ग्रहणं सङ्ग्रहः-सामान्यमित्यर्थः, स प्रयोजनमस्येति साङ्घहिकः, सामान्याभ्युपगमपर इत्यर्थः । तद्विपरीतोऽसावहिकः । तत्र यः सावहिकः . स नियमात् 'त्रिविधम्' उत्तानका-ऽवाङ्मुख-सम्पुटकभेदभिन्नं सम्पूर्ण वा खण्डं वा मल्लकं तस्य 20 यत् पटहच्छेदलक्षणं संस्थानं तैद् मन्यते । असामहिकस्तु भित्तिसंस्थानमादौ कृत्वा. यावत् काश्यपसंस्थानम् एतानि सर्वाण्यपि 'ब्रूते' प्रतिपद्यत इत्यर्थः । सङ्ग्रह-व्यवहारौ तु सामहिकाऽसावहिकयोरेव नैगमयोर्यथासङ्ख्यमन्तर्भावनीयाविति न पृथक् पँपञ्च्येते इति ॥ १११० ॥ निम्मा घर वइ धूभिय, तइओ दुहणा वि जाव पावंति । नाणिस्साहिपइस्स व, जं संठाणं तु सद्दस्स ॥ ११११॥ 25 'तृतीयः' सूत्रक्रमप्रामाण्येन ऋजुसूत्रः, सः “निम्म" ति मूलपादानां "घर वइ" ति गृहाणां घृतेर्वा स्तूपिकानां वा उपलक्षणत्वात् कटकानां कुट्टिमानां वा यत् संस्थानं माले वा भूमिकादायसम्पादनार्थमवकुट्यमाने 'द्रुघणाः' मुद्रा ऊर्द्धमुत्क्षिप्यमाणा यावद् आकाशतलं प्रामुवन्ति तावन्मर्यादीकृत्य यत् संस्थानमेतत् सर्वमपि प्रत्येकं ऋजुसूत्रो मन्यते । तथा 'ज्ञानिनः' ग्रामप १ एतदेव व्यक्ती भा० ॥ २ जा कसवो ता० ॥ ३ तदेव मन्यते न भित्त्यादिकं संस्थानम् । असान भा० ॥ ४ प्रपद्येते भा० विना ॥ ५ °न्यते । त्रयः शब्दनया: 'शानिनः' प्रामपदार्थशस्य ग्रामाधिपतेर्वा यत् संस्थानं तदेव प्रतिपद्यन्ते, न शेषम् , अतिविशुद्धतमत्वादेषामिति भा० । “तिन्नि सद्दणया गामत्याधियारजाणयस्स गामाहिपयस्स वा जे संठाणं तं इच्छति" इति चूर्णो विशेषचूर्णौ च । “जं संठाणं तु सद्दणया" इति पाठानुसारेणेयं व्याख्या, न चासौ पाठोऽसत्पार्श्वस्थादर्शषु क्वचिदपीक्ष्यते ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy