________________
३४६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कसंस्थितः सम्पुटकखण्डमल्लकसंस्थितश्च । तथा भित्तिसंस्थितः पडालिकासंस्थितः वलभीसंस्थितः अक्षपाटकसंस्थितः रुचकसंस्थितः काश्यपसंस्थितश्चेति ॥ ११०३ ॥ अथैषामेव संस्थानानां यथाक्रमं व्याख्यानमाह
- मज्झे गामस्सगडो, बुद्धिच्छेदा ततो उ रतओ।
निक्खम्म मूलपादे, गिण्हतीओ वई पत्ता ॥ ११०४॥ ___ इह यस्य ग्रामस्य मध्यभागे 'अगडः' कूपस्तस्य बुद्ध्या पूर्वादिषु दिक्षु च्छेदः परिकल्प्यते, ततश्च कूपस्याधस्तनतलाद् बुद्धिच्छेदेन रज्जवो दिक्षु विदिक्षु च निष्क्राम्य गृहाणां मूलपादान् उपरि कृत्वा गृहत्यस्तिर्यक् तावद् विस्तार्यन्ते यावद् ग्रामपर्यन्तवर्तिनी वृतिं प्राप्ता भवन्ति, तत
उपर्यभिमुखीभूय तावद् गता यावद् उच्छ्येण हर्म्यतलानां समीभूताः तत्र च पटहच्छेदेनोपरताः, 10 एष ईदृश उत्तानमल्लकसंस्थितो ग्राम उच्यते, ऊर्धाभिमुखस्य शरावस्यैवमाकारत्वात् ॥११०४॥
ओमंथिए वि एवं, देउल रुक्खो व जस्स मज्झम्मि ।
कूवस्सुवरि रुक्खो, अह संपुडमल्लओ नाम ॥ ११०५॥ अवाड्मुखमल्लकाकारेऽप्येवमेव वाच्यम् , नवरं यस्य ग्रामस्य मध्ये देवकुलं वृक्षो वा उच्चैस्तरस्तस्य देवकुलादेः शिखराद् रज्जवोऽवतार्य तिर्यक् तावद् नीयन्ते यावद् वृतिं प्राप्ताः, ततोऽधो15 मुखीभूय गृहाणां मूलपादान् गृहीत्वा पटहच्छेदेनोपरताः, एषोऽवाङ्मुखमल्लकसंस्थितः । तथा
यस्य ग्रामस्य मध्यभागे कूपः, तस्य चोपर्युच्चतरो वृक्षः, ततः कूपस्याधस्तलाद रज्जवो निर्गत्य मूलपादानधोऽधस्तावद् गता यावद् वृतिं प्राप्ताः, तत ऊर्धाभिमुखीभूय गत्वा हर्म्यतलानां समश्रेणीभूताः, वृक्षशिखरादप्यवतीर्य रज्जवस्तथैव तिर्यग् वृतिं प्राप्नुवन्ति, ततोऽधोमुखीभूय कूपसम्बन्धिनीनां रज्जूनामग्रभागैः समं सङ्घटन्ते, अथैष सम्पुटकमल्लकाकारो नाम ग्रामः ॥ ११०५॥
जइ कूवाई पासम्मि होति तो खंडमल्लओ होइ। .
पुव्वावररुक्खेहिं, समसेढीहिं भवे मित्ती ॥ ११०६ ॥ यदि 'कूपादीनि' कूप-वृक्ष-तदुभयानि 'पार्श्वे' एकस्यां दिशि भवन्ति ततः खण्डमल्लकाकारस्त्रिविधोऽपि ग्रामो यथाक्रमं मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपः तामेवैकां दिशं मुक्त्वा शेषासु सप्तसु दिक्षु रज्जवो निर्गत्य तिर्यग् वृतिं प्राप्योपरि हर्म्यतलान्यासाद्य पटहच्छेदे25 नोपरमन्ते, एष उत्तानकखण्डमल्लकाकारः । अवाङ्मुखखण्डमल्लकाकारोऽप्येवमेव, नवरं यस्यैकस्यां दिशि देवकुलमुच्चैस्तरो वा वृक्षः । सम्पुटकखण्डमल्लकाकारस्तु यस्यैकस्यां दिशि कूपस्तदुपरिष्टाच वृक्षः, शेषं प्राग्वत् । “पुवावर" इत्यादि, पूर्वस्यामपरस्यां च दिशि समश्रेणिव्यवस्थितैर्वृक्षैमित्तिसंस्थितो ग्रामो भवेत् ॥ ११०६॥ .
पासहिए पडाली, वलभी चउकोण ईसि दीहा उ।
चउकोणेसु जइ दुमा, हवंति अक्खाडतो तम्हा ॥ ११०७ ॥ पडालिकासंस्थितोऽप्येवमेव, नवरमेकस्मिन् पार्श्वे वृक्षयुगलं समश्रेण्या व्यवस्थितम् । तथा यस्य ग्रामस्य चतुर्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः स वलभीसंस्थितः । 'अक्षवाटः' मल्लानां युद्धाभ्यासस्थानम् , तद् यथा समचतुरस्रं भवति एवं यदि ग्रामस्यापि चतुर्षु कोणेषु द्रुमा भवन्ति
30