________________
भाष्यगाथाः १०८८-९५] प्रथम उद्देशः ।
३४३ संवाहो संवोढुं, वसति जहिं पव्वयाइविसमेसु ।
घोसो उ गोउलं अंसिया उ गामद्धमाईया ॥ १०९२ ॥ सम्बाधो नाम यत्र कृषीवललोकोऽन्यत्र कर्षणं कृत्वा वणिग्वर्गों वा वाणिज्यं कृत्वाऽन्यत्र पर्वतादिषु विषमेषु स्थानेषु 'संवोढुम्' इति कणादिकं समुह्य कोष्ठागारादौ च प्रक्षिप्य वसति । तथा 'घोषस्तु' गोकुलमभिधीयते । 'अंशिका तु' यत्र ग्रामस्यार्धम् आदिशब्दात् त्रिभागो वा चतुर्भागो वा गत्वा स्थितः सा ग्रामस्यांश एवांशिका ॥ १०९२ ॥
नाणादिसागयाणं, मिजंति पुडा उ जत्थ भंडाणं ।
पुडभेयणं तगं संकरो य केसिंचि कायव्वो ॥१०९३ ॥ नानाप्रकाराभ्यो दिग्भ्य आगतानां 'भाण्डानां' कुङ्कुमादीनां पुटा यत्र विक्रयार्थ भिद्यन्ते तत् पुटभेदनमुच्यते । केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्तव्यः, “संकरंसि वा" इत्यधिकं पदं 10 पठितव्यमित्यर्थः । सङ्करो नाम-किञ्चिद् ग्रामोऽपि खेटमपि आश्रमोऽपीत्यादि ॥ १०९३ ॥ एष सूत्रार्थः । अथ नियुक्तिविस्तरः । तत्र ग्रामपदनिक्षेपमाह
नामं ठवणागामो, दव्वग्गामो य भूतगामो य ।
आउजिंदियगामो, पिउ-माऊ-भावगामो य ॥१०९४ ॥ . नामग्रामः स्थापनाग्रामो द्रव्यग्रामश्च भूतग्रामश्च आतोद्यग्राम इन्द्रियग्रामः पितृप्रामो मातृप्रामो 16 भावग्रामश्चेति गाथासमुदयार्थः ॥ १०९४ ॥ अथावयवार्थमभिधित्सुर्नाम-स्थापने क्षुण्णत्वादनादृत्य द्रव्यग्रामं व्याचष्टे
जीवा-ऽजीवसमुदओ, गामो को कं नओ कहं इच्छे ।
आदिणयोऽणेगविहो, तिविकप्पो अंतिमनओं उ ॥१०९५ ॥ जीवानां-गो-महिषी-मनुष्यादीनाम् अजीवानां च-गृहादीनां यः समुदयः स द्रव्यग्राम 20 उच्यते । इह च सर्वज्ञोपज्ञप्रवचने प्रायः सर्वमपि सूत्रमर्थश्च नयैर्विचार्यते । यत उक्तम्
नत्थि नएहि विहणं, सुत्तं अत्थो य जिणमए किंचि । ___आसज उ सोयारं, नए नयविसारओ बूया ॥ (आव०नि० गा० ७६१) अत एषोऽपि द्रव्यग्रामो नयैर्विचार्यते-को नाम नयः कं द्रव्यग्रामं कथमिच्छति ? इति, तत्र नयाः सामान्यतः सप्त नैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरुदैवम्भूतभेदात् ; इह तु 25 समभिरूदैवम्भूतयोः शब्दप्राधान्याभ्युपगमपरतया शब्दनय एवान्तर्भावो विवक्ष्यते । ततश्च 'आदिनयः' नैगमः सोऽविशुद्ध-विशुद्ध-विशुद्धतरादिभेदाद् अनेकविधः । 'अन्तिमनयस्तु' शब्दः सः [ 'त्रिविकल्पः' ] त्रिविधः शब्द-समभिरूदैवम्भूतभेदात् ॥ १०९५ ॥
१ "केइ घोसं पढंति, घोसो गोउलं । अण्णे अंसितंसि वा पढंति, अंसिया जत्थ गामस्स अद्धं तिभागो चउभागो वा ठितओ। पुडभेदणं पि केयि पढंति ॥ तत्थ-णाणादि० गाधा कण्ठ्या ॥ संकरो णाम.एतेसि गामादीणं कंचि गामो वि खेडं पि आसमो वि इत्यादि जधासंभवं वक्तव्यम् । सह परिक्खेवेण सपरिक्खे। नाऽस्य बाहिरिका विद्यत इत्यबाहिरिकम ॥ एस सुत्तत्थो, इदाणी णिजुत्तीए वित्थारेति । तत्य गामोनामं० गाहा ।" इति चूर्णिकृतः। विशेषचूर्णी प्राय एतत्तुल्य एव पाठः ॥२ करोऽपि क° भा० ॥ ३°माउय-भाव ता.॥