________________
३४२
मनियुक्ति-लघुभाप्य-वृत्तिक बृहत्कल्पसूत्रे [ मासकल्पप्रकृत सूत्रम् १ क्षेपे वृत्यादिरूपपरिक्षेपयुक्ते 'अबाहिरिके' बहिर्भवा बाहिरिका "अध्यात्मादिभ्य इकण्" (सिद्ध० ६-३-७८ ) इति इकण्प्रत्ययः, प्राकारबहिर्वत्तिनी गृहपद्धतिरित्यर्थः, न विद्यते वाहिरिका यत्र तद् अबाहिरिकं तस्मिन् कल्पते निर्ग्रन्थानां 'हेमन्त-ग्रीप्मेषु' ऋतुबद्धकालसम्बन्धिषु अष्टसु मासेप्वित्यर्थः, एकं मासं 'वस्तुम्' अवस्थातुम् । वाशब्दाः सर्वेऽपि विकल्पार्थाः खगतानेकभेद5 सूचका वा द्रष्टव्या इति सूत्रसमासार्थः ॥ अथ विस्तरार्थं प्रतिपदं भाष्यकृदाह
आदिपदं निदेसे, वा उ विभासा समुच्चये वा वि ।
गम्मो गमणिज्जो वा, कराण गसए व बुद्धादी ॥ १०८८ ॥ "से" इत्येतद् आदिपदं 'निर्देशे' उपन्यासे वर्तते । वाशब्दो विभाषायां स्वगतानामनेक10 भेदानां समुच्चयार्थे वा । गम्यो गमनीयो वा अष्टादशानां कराणामिति व्युत्पत्त्या ग्रसते वा बुद्ध्यादीन् गुणानिति व्युत्पत्त्या वा पृषोदरादित्वाद् निरुक्तविधिना ग्राम उच्यते ॥ १०८८ ॥
नत्थेत्थ करो नंगरं, खेडं पुण होइ धूलिपागारं ।
कब्बडगं तु कुनगरं, मडंबगं सव्वतो छिन्नं ॥ १०८९ ॥ 'नास्ति' न विद्यतेऽत्राष्टादशकराणामेकोऽपि कर इति नकरम् , नखादित्वाद् नञोऽकारा15 भावः । खेटं पुनधूलीप्राकारपरिक्षिप्तम् । कर्वटं तु कुनगरमुच्यते । मडम्बं नाम यत् 'सर्वतः'
सर्वासु दिक्षु 'छिन्नम्' अर्द्धतृतीयगव्यूतमर्यादायामविद्यमानग्रामादिकमिति भावः । अन्ये तु व्याचक्षते---यस्य पार्श्वतोऽर्द्धतृतीययोजनान्तामादिकं न प्राप्यते तद् मडम्बम् ॥ १०८९ ॥
जलपट्टणं च थलपट्टणं च इति पट्टणं भवे दुविहं ।।
अयमाइ आगरा खलु, दोणमुहं जल-थलपहेणं ॥ १०९० ॥ 20 पत्तनं द्विधा---जलपत्तनं च स्थलपत्तनं च । यत्र जलपथेन नावादिवाहनारूढं भाण्डमुपैति
तद् जलपत्तनं, यथा द्वीपम् । यत्र तु स्थलपथेन शकटादौ स्थापितं भाण्डमायाति तत् स्थलपत्तनम् , यथा आनन्दपुरम् । अयः-लोहं तदादय आकरा उच्यन्ते । यत्र पाषाणध,तुधमनादिना लोहमुत्पाद्यते स अयआकरः, आदिशब्दात् ताम्र-रूप्याद्याकरपरिग्रहः । यस्य तु जलपथेन
स्थलपथेन च द्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् द्वयोः पथोर्मुखमिति निरुत्या द्रोण25 मुखमुच्यते, तच्च भृगुकच्छं ताम्रलिप्ती वा ॥ १०९० ॥
निगम नेगमवग्गो, वसइ जहिं रायहाणि जहिं राया ।
__ तावसमाई आसम, निवेसों सत्थाइजत्ता वा ॥ १०९१ ।। __निगमं नाम यत्र नैगमाः-वाणिजकविशेषास्तेषां वर्गः-समूहो वसति, अत एव निगमे
भवा नैगमा इति व्यपदिश्यन्ते । यत्र नगरादौ राजा परिवसति सा राजधानी । आश्रमो यः प्रथ30 मतस्तापसादिभिरावासितः, पश्चादपरोऽपि लोकस्तत्र गत्वा वसति । निवेशो नाम यत्र सार्थ
आवासितः, आदिग्रहणेन ग्रामो वा अन्यत्र प्रस्थितः सन् यत्रान्तरावासमधिवसति; यात्रायां वा गतो लोको यत्र तिष्ठति एष सर्वोऽपि निवेश उच्यते ॥ १०९१ ॥ .१ "जत्ताए वा जत्थ लोगो गतो, जधा सरस्सतीए” इति चूर्णी विशेषचूर्णी च ॥