________________
[ मा सकल्प प्र कृतम् ]
सूत्रम्
से गामंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा रायहाणिसि वा आसमंसि वा निवेसंसि वा संबाहंसि वा घोसंसि वा अंसियंसि वा पुडभेयणंसि वा संकरंसि वा > सपरिक्खेवंसि रे अबाहिरियंसि कप्पइ निग्गंथाणं हेमंत गिम्हासु एगं मासं वत्थए १ - ६॥
एवमग्रेतनमपि सूत्रत्रयमुच्चारणीयम् । अथास्य सूत्रचतुष्टयस्य कः सम्बन्ध इत्याहतो खलु आहारो, इयाणि वसहीविहिं तु वन्ने । सो वा कत्थुवभुज, आहारो एस संबंधो ॥। १०८६ ॥
उक्तः खल्वनन्तरसूत्रे आहारः । ' इदानीं तु' अस्मिन् सूत्रे वसतेर्विधिं भगवान् भद्रबाहुखामी वर्णयति । यद्वा स आहारो गृहीतः सन् व ग्रामादौ उपभुज्यते ? इति निरूपणार्थमिदमारभ्यते एष द्वितीयप्रकारेण सम्बन्धः || १०८६ ॥ भूयोऽपि सम्बन्धमाह--- तेसु सपरिग्गहेसुं, खेत्ते साहुविरहिएसुं वा ।
किच्चिरकालं कप्पर, वसिउं अहवा विकप्पो उ ॥। १०८७ ॥
तेषु क्षेत्रेषु ‘सपरिग्रहेषु' साधुपरिगृहीतेषु साधुविरहितेषु वा कियन्तं कालं निर्मन्थानां वा निर्ग्रन्थीनां वा वस्तुं कल्पते ? इत्यस्मिन् सूत्रे चिन्त्यते, अयं सम्बन्धस्यापरो विकल्प इति ॥१०८७॥
5
10
15
अॅमीभिः सम्बन्धैरायातस्यास्य व्याख्या – अत्र च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने महद् 20 ग्रन्थगौरवमिति कृत्वा पदार्थादिमात्रमेवाभिधास्यते, संहितादिचर्चस्तु पूर्ववद् वक्तव्य इति । सेशब्दो मागधदेशे प्रसिद्धः अथशब्दार्थे, अथशब्दश्च प्रक्रियादिष्वर्थेषु वर्त्तते । यत उक्तम्"अथ प्रक्रिया-प्रश्ना-Sऽनन्तर्य - मङ्गलोपन्यास-प्रतिवचन - समुच्चयेषु" इति ।
25
इहोपन्यासार्थे द्रष्टव्यः, ततश्च यथा साधूनामेकत्र क्षेत्रे वस्तुं कल्पते तथा उपन्यस्यते इत्यर्थः । ग्रामे वा नगरे वा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखे वा निगमे वा राजधान्यां वा आश्रमे वा निवेशे वा सम्बाधे वा घोषे वा अंशिकायां वा पुटभेदने वा 'सपरिएतविहान्तर्गतोऽ यं पाठः आचार्यान्तरमतेन ज्ञेयः । दृश्यतां गाथा १०९३ ॥ ३ °यम् । तच्च यथास्थानमेवोच्चारयिष्यते । अथा' डे० ॥ ४ अनेन सम्ब न्धेनायात भा० । “ एभिः सम्बन्धैरायातस्यास्य सूत्रस्य पदविभागं कृत्वा पदार्थमभिधास्यामः” इति चूर्णौ विशेषचूर्णौ च ॥
१ वा सन्निवे ता० मु० ॥ २