________________
३४०
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् ३-५ ततश्च प्रथममनन्तकायिके द्वितीयेन भङ्गेन, तदभावे प्रथमेनापि ग्रहीतव्यम् । यदा अनन्तस्यापि प्रथमो भङ्गो न प्राप्यते तदा यतनया युक्तस्य यत्र यत्राल्पतरः कर्मबन्धो भवति तत् तद् गृह्णानस्याशठपरिणामस्य संयम एव भवतीति वाक्यशेषः ॥ १०८४ ॥ एवं तावत् संयतानधिकृत्य यतनोक्ता । अथ संयतीरुद्दिश्याह
एमेव संजईण वि, विहि अविही नवरि तत्थ नाणतं ।।
सव्वत्थ वि सग्गामे, परगामे भावओ वि भए ॥ १०८५ ॥ यथा संयतानां खग्राम-परप्रामादिविभाषापुरस्सरं भिन्ना-ऽभिन्नयोर्यतना भणिता एवमेव संयतीनामपि वक्तव्या । नवरं तासां 'नानात्वं' विशेषो विधिभिन्नानि अविधिभिन्नानि च भवन्ति । विधिभिन्नानि मुख्यपदे सर्वत्रापि गृह्यन्ते स्वग्राम-परग्रामयोश्च । प्रथमं षष्ठो भङ्गः, तदभावे 10 पञ्चमः, तस्याप्यलाभे चतुर्थः, तस्याप्यप्राप्तौ भावतोऽप्यभिन्नानि तृतीय-द्वितीय-प्रथमभङ्गवर्तीनि यथाक्रमं 'भजेत्' प्रतिसेवेत, न कश्चिद्दोषः ॥ १०८५ ॥
॥ इति कल्पटीकायां प्रलम्बप्रकृतं समाप्तम् ॥ दुर्गस्थानबहुत्वमीरुकतया मन्दाऽपि दातुं पदा
न्येतचूर्णि-निशीथचूर्णिसुवचःश्रेणीसुयष्ट्या भृशम् । प्रेर्य प्रेर्य पदे पदे निजगवी क्षिप्रप्रचारं मया
कल्पे यत् प्रकृतं प्रलम्बविषयं तद्गोचरे चारिता ।।
१ जन्मापूर्वभुवोऽवलोकनवशान्मन्दाऽपि भा० ॥ २°चूर्णियुगलीयष्टिद्वयीदर्शनात् त० डे० कां० ॥ ३°ष्ट्या स्फुटम् भा० ॥ ४ °गवी मुग्धाऽपि सम्यग मया भा० ॥