________________
३३९
भाप्यगाथाः १०७८-८४ ]
प्रथम उद्देशः ।
इत्युच्यन्ते, आदिग्रहणेनान्यदपि यदेवं निष्पद्यते तत्परिग्रहः । यदि तावत् पृथुकादयोऽग्निशस्त्रोयहता अप्यनाचीर्णा भवन्ति किं पुनरशस्त्रोपहताः 'पेश्यः' प्रलम्बानामूर्द्धायताः फालयः · ? तथा प्रम्लानानि - म्लानवृन्तानि यानि 'सरडूनि' अवद्धास्थिकफलानि ?, तान्यशस्त्रोपहतानि कथमाची - र्णानि भविष्यन्तीत्यर्थः । एतत् सर्वमपि परीत्तविषयमुक्तम् || १०८२ ॥
गतं परीत्तद्वारम् । अथ साधारणद्वारमाह
साधारणे वि एवं मीसा-मीसे वि होंति भंगाओ ।
पण गादी गुरुपत्तो, सव्वविसोहीय जय ताहे ॥। १०८३ ॥
साधारणम्–अनन्तं तत्रापि ' एवं ' प्रत्येकवद् मिश्रोपस्कृते निर्मिश्रोपस्कृते च चतुर्थ-तृतीयौ भङ्गौ भवतः । नवरं यदा तृतीयभङ्गे प्रत्येक प्रलम्बं निर्मिश्रोपस्कृतं न लभ्यते तदा मासलघुकादुपरि यत्रोमादौ लघुपञ्चरात्रिन्दिवान्यभ्यधिकान्यापद्यन्ते तत् स्वग्रामे वा परग्रामे वा गृह्णाति 110 एवं यदा पञ्चकादिहान्या गुरुमासं प्राप्तो भवति तदा साधारणं निर्मिश्रोपस्कृतं प्रथमं चतुर्थभङ्गे तदलाभे तृतीयभङ्गे स्वग्राम परग्रामयोगृह्णाति । यदा तृतीयभङ्गेनापि न प्राप्यते तदा सर्वेषु विशोधिकोटिदोषेषु ' यतस्व ' प्रयत्नं कुरु । तत्राऽऽधाकर्मिकमौद्देशिकत्रिक- आहारपूतिकर्म-मिश्रजातान्त्यद्विक - बादरप्राभृतिका - अध्यवपूरकचरमद्विकरूपान् अविशोधिकोटिदोषान् मुक्त्वा शेषाः सर्वेऽप्योघौद्देशिकादय उद्गमदोषा विशोधिकोटयः । तेष्वपि गुरु - लाघवालोचनतो यद् यद्ं 15 अल्पदोषतरं तत् तत् पूर्वं पूर्वं प्रतिसेवमानस्तावद् यतते यावत् चतुर्लघुस्थानानि ॥ १०८३ ॥ तेष्वपि यदा न लभ्यते तदा चतुर्लघुकादुपरि पञ्चकपरिहाण्या यतित्वा यदा चतुर्गुरुप्राप्तो भवति तदा किमाधाकर्म गृह्णातु ? उत प्रथमद्वितीयभङ्गौ ? इति, अत्रोच्यते
कम्मे आदेसदुगं, मूलुत्तरें ताहे वि कलि पत्तेगे ।
दावर कली अणते, ताहे जयणाऍ जुत्तस्स ।। १०८४ ॥
अत्राधकर्मणि प्राप्ते आदेशद्विकं वक्तव्यम् । तद्यथा-- आधाकर्मणि चत्वारो गुरवः, प्रत्येकप्रथमद्वितीययोर्भङ्गयोश्चत्वारो लघवः । एवं च प्रायश्चित्तानुलोम्येनाधाकर्म गुरुकम्, व्रतानुलोम्येन तु प्रथमद्वितीयभङ्ग गुरुकौ तयोः प्रतिसेव्यमानयोः प्राणातिपातत्रतस्य लोपसद्भावादिति । अथवा आधाकर्म उत्तरगुणोपघातित्वाद् लघुतरम्, प्रथम- द्वितीयभङ्गौ मूलगुणोपघातित्वाद् गुरुतरौ । एवमादेशद्वये कृतेऽप्याधाकर्मैव प्रथमतो ग्रहीतव्यं न प्रथम द्वितीयभङ्गौ । कुतः ? इति चेद् 25 उच्यते — आधाकर्मणि जीवाः परेण व्यपरोपिता इति तत्र गृह्यमाणे न तादृशी निःशूकतोपजाते याशी प्रथम द्वितीययोर्भङ्गयोरध्यक्षवीक्ष्यमाणानां जीवानामात्मनैव मुखे प्रक्षिप्य भक्ष्यमा - णानां व्यपरोपणे भवति, अत आधाकर्मैव प्रथमतो ग्राह्यं न प्रथम द्वितीयभङ्गाविति स्थितम् । " ताहे विकलि पत्तेगि" त्ति यदा आधाकर्मापि न लभ्यते तदा प्रत्येकद्वितीयभङ्गे ग्रहीतव्यम्, तदभावे 'कलिः' प्रथमो भङ्गः तत्रापि ग्राह्यम् । “द्रावर कली अणंते" त्ति यदा प्रत्येकस्यापि प्रथमो 30 भो न प्राप्यते तदा 'द्वापर : ' इति समयपरिभाषया द्वितीयः, 'कलिः' इति तु प्रथम उच्यते ।
१ तस्य गोधूम-धानादेः परि° भा० ॥ २ वावर ता० ॥
2)