________________
३३७
भाष्यगाथाः १०७२-७७] प्रथम उद्देशः । 'मिश्राणां वा' द्विवर्ग-त्रिवर्ग-चतुर्वर्गरूपतया स्थितानां अवमकाले असंस्तरणे इयं यतना यस्यामिदं प्रलम्बसूत्रं प्रकृतम् ॥ १०७४ ॥ तामेवाह--
ओयण-मीसे-निम्मीसुवक्खडे पक्क-आम-पत्तेगे ।
साधारण सग्गामे, परगामे भावओ वि भए ॥ १०७५ ।। ओदनं १ मिश्रोषस्कृतं २ निर्मिश्रोपस्कृतं ३ पक्कं ४ आमं ५ प्रत्येकं ६ साधारणं ७, एतानि । सप्तापि यथाक्रमं प्रथमं स्वग्रामे ततः परग्रामे ग्रहीतव्यानि । भावतोऽपि यान्यभिन्नानि तान्यपि यतनापरिपाटिप्राप्तानि 'भजेत्' सेवेत गृह्णीयादित्यर्थ इति द्वारगाथासमासार्थः ॥ १०७५ ॥ अथ प्रतिद्वारं विस्तरार्थमभिधित्सुरोदनद्वारमाह. बत्तीसाई जा एक घास खवणं व न वि य से हाणी ।
आवासएसु अच्छउ, जा छम्मासे न य पलंवे ॥ १०७६ ॥ 10 ओदनस्य द्वात्रिंशत् कवलाः पुरुषस्य प्रमाणप्राप्त आहारः । यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु, यदि 'से' तस्य साधोः 'आवश्यकेपु' अवश्यकृत्ययोगेषु हानिः 'नापि' नैव भवति न च प्रलम्बानि गृह्णातु । एवं द्वाभ्यां कवलाभ्यां न्यूना द्वात्रिंशत् कवला लभ्यन्ते तैस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते । एवमेकैकं कवलं परिहापयता तावद् वक्तव्यं यावद् यद्येकः 'ग्रासः' कवलः प्राप्यते ततस्तेनैवास्ताम् , यदि तस्यावश्यकयोगा न परिहीयन्ते मा 15 च प्रलम्बानि गृह्णातु । अथैकोऽपि कवलो न प्राप्यते तत एक दिवसं 'क्षपणम्' उपवासं कृत्वा आस्ताम् , द्वितीये दिवसे द्वात्रिंशत्कवलैः पारयतु । यदि तावन्तो न लभ्यन्ते तत एकैककवलपरिहाण्या तावद् वक्तव्यं यावद् यद्येकोऽपि कवलो न लब्धस्ततः षष्ठं कृत्वा समाधिसौधमध्यास्ताम् , षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्ताम् । अथ न लभ्यते ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते ततोऽष्टमं कृत्वा तिष्ठतु मा च प्रलम्बान्याददीत । एवमनयैव दिशा 20 दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावद् नेतव्यं यावत् षण्मासक्षपणम् । अथ षण्मासक्षपणे धर्मावश्यकयोगाः परिहीयन्ते तत एकदिनन्यूनं षण्मासक्षपणं करोतु । तदपि न शक्नोति निर्वोढुं तत एकैकं क्षपणं परिहापयता तावद् वक्तव्यं यावदेकमपि क्षपणं कर्तुं न शक्नोति ॥ १०७६ ॥ ततः किं करोति ? इत्याह
जावइयं वा लब्भइ, सग्गामे सुद्ध सेस परगामे ।
मीसं च उवक्खडियं, सुद्धज्झवपूरगं गेण्हे ॥ १०७७ ।। वाशब्दः पातनायाम् , सा च कृतैवेति । यावत् शुद्धोदनं खग्रामे लभ्यते यदि तावता न संस्तरति ततो यावता न्यूनं तावत् परग्रामात् 'शेष' शुद्धोदनमानयति । गतमोदनद्वारम् । अथ मिश्रोपस्कृतद्वारमाह-"मीसं च” इत्यादि । यदा स्वग्राम-परग्रामयोः पर्याप्तं शुद्धोदनं न प्राप्यते तदा यद ओदनं प्रलम्बैर्मिश्रमुपस्कृतं तत् शुद्धोदनस्याध्यवपूरकं गृह्णाति ॥ १०७७ ।। 30 इदमेव विशेषयन्नाह
तत्थ वि पढमं जं मीसुवक्खडं दव्व-भावतो भिन्नं । १°यन्ते, न च प्रलम्बानि गृहीताम् । एव भा० ॥ २ को लम्बनः कवलः भा० ॥