________________
३३६ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् ३-५ तथा तैरेव परिगृहीते प्रवर्त्तिन्यादिभेदात् चतुर्विधाः संयत्यो यद्यागच्छेयुस्तदाऽपि षोडश भङ्गाः, चतुर्विधेषु तदुभयगणाधिपतिषु पूर्वस्थितेषु चतुर्विधानामेवोभयगणाधिपतीनामागमनेऽप्येवमपि षोडश भङ्गाः, चतुर्विधसंयतेषु पूर्वस्थितेषु चतुर्विधा उभयगणाधिपतय आगच्छेयुः अत्रापि षोडश भङ्गाः, एवं चतुर्विधसंयतीषु चतुर्विधानामेवोभयगणाधिपतीनामागमने षोडश भङ्गाः । एवमेताः 5 पञ्च षोडशभङ्ग्यः सञ्जाताः, पञ्चभिश्च षोडशभङ्गीभिर्लब्धा भङ्गानामशीतिः । एषा चोभयगणविषया भङ्गकानामशीतिः पूर्वोक्तयैकैकपक्षविषयया भङ्गकचतुःषष्ट्या सह मील्यते जातं चतुश्चत्वारिंशं शतं भङ्गानाम् । प्रायश्चित्तं च सर्वत्र प्राग्वद् द्रष्टव्यम् । “पेल्लमदिंते य ज पावे" ति एतत् पदं सर्वभङ्गानुपाति प्रतिपत्तव्यम् । अपूर्यमाणे क्षेत्रे आगन्तुका यदि बलात् प्रेर्य तिष्ठन्ति ततो वास्तव्या निर्गच्छन्तो अवमौदर्यसमुत्थामात्म-संयमविराधनां यत् प्राप्नुवन्ति तन्निप्पन्नं प्रायश्चित्त10 मागन्तुकानाम् । अथ वास्तव्याः पूर्यमाणे क्षेत्रे आगन्तुकानां स्थातुं न ददति ततो यद् आगन्तुका बहिःपर्यटन्तो भक्तादिकमलभमाना विराधनां प्राप्नुवन्ति तन्निप्पन्नं वास्तव्यानामापद्यते ॥१०७१॥
आह यद्येवंकुर्वतामेतावत् प्रायश्चित्तकदम्बकमुपढौकते तर्हि साम्प्रतं स्वपक्षस्य दूर दूरेणैव स्थातुं युक्तम् , अत्रोच्यते
चउवग्गो वि हु अच्छउ, असंथराऽऽगंतुगा य वचंतु । 15 वत्थव्वा व असंथरे, मोत्तु गिलाणस्स संघाडं ॥ १०७२ ॥
'चतुर्वर्गः' नाम वास्तव्याः संयताः संयत्यश्च आगन्तुकोः संयताः संयत्यश्च । एते चत्वारोऽपि वर्गा एकस्मिन् क्षेत्रे यदि संस्तरन्ति तर्हि तिष्ठन्तु न कोऽपि परस्परं मत्सरः कर्त्तव्यः । यदि संस्तरणं न भवति तत आगन्तुका वजन्तु । अथागन्तुकभद्रकं तत् क्षेत्रमागन्तुका वा अदेशिका
अखेदज्ञा वा ततो वास्तव्या आत्मनस्तेषां वा असंस्तरणे निर्गच्छन्ति । एवमागन्तुका वास्तव्या 20वा ये निर्गच्छन्ति तेषां यदि कश्चिद् ग्लानो भवेत् ततो ग्लानः ससङ्घाटकस्तिष्ठति, तं मुक्त्वा शेषाः सर्वेऽपि गच्छन्ति ॥ १०७२ ॥
एमेव संजईणं, वुड्डी-तरुणीण जुंगितकमाई।
पायादिविगल तरुणी, य अच्छए वुड्डिओ पेसे ॥१०७३ ॥ 'एवमेव' संयतवत् संयतीनां निर्गमनविधिरभिधातव्यः, परमत्र द्विकभेदः कर्तव्यः । कथम् ? 25 इत्याह-वृद्धानां तरुणीनां च मध्ये यदि निप्पत्यपायं ततस्तरुण्यो गच्छन्ति वृद्धा आसते । तथा
जुङ्गितानामजुङ्गितानां च जुङ्गितास्तिष्ठन्ति अजुङ्गिता ब्रजन्ति । जुङ्गिता द्विविधाः---जातिजुङ्गिताः शरीरजुङ्गिताश्च । तत्र जातिजुङ्गिता गच्छन्ति शरीरजुङ्गिताः पादादिविकलास्तत्रैवाऽऽसते । तरुण्योऽपि यदि सप्रत्यपायं मार्गादौ ततस्तत्रैवाऽऽसते वृद्धास्तु प्रेषयेत् ॥ १०७३ ॥
एवं तेसि ठियाणं, पत्तेगं वा वि अहव मिस्साणं ।
ओमम्मि असंथरणे, इमा उ जयणा जहिं पगयं ॥ १०७४ ॥ 'एवम्' अनन्तरोक्तप्रकारेण 'तेषाम्' आचार्यादीनां तत्र क्षेत्रे 'प्रत्येकं वा' एकतरवर्गरूपेण १ का अपि सं° मो० ॥
30