SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भाप्यगाथाः १०६७-७१ ] प्रथम उद्देशः । ३३५ पुनरित्वराभिषेकेणाऽऽचार्यपदेऽभिषिक्तः स इहाभिषेकः, अथवा गणावच्छेदक इहाभिषेकः । शेषाः सामान्यसाधवो भिक्षवः । एतेषां चेयं चारणिका - आचार्यपरिगृहीते क्षेत्रे यदन्य आचार्य आगतो यदि च स वास्तव्य आचार्यः क्षेत्रे पूर्यमाणे भक्त पाने वा लभ्यमाने आगन्तुकस्य स्थातुं न ददाति तदा चत्वारो गुरवः, अथ न पूर्यते क्षेत्रं स चागन्तुको बलात् प्रेर्य तिष्ठति तस्याप चतुर्गुरुकाः, एतच्च प्रायश्चित्तं तपसा कालेन च द्वाभ्यामपि गुरुकम् ; स एव वास्तव्यक आचार्यो वृषभस्यागन्तुकस्य न ददाति वृषभो वा बलात् तिष्ठति उभयोरपि चत्वारो गुरुकाः तपसा गुरवः कालेन लघवः; स एव वास्तव्य आचार्योऽभिषेकस्यागतस्य स्थानं न ददाति स वा अभिषेको वास्तव्यमाचार्यमवगणय्य तिष्ठति उभयत्रापि चतुर्गुरु तपसा लघु कालेन गुरुकम् ; स एव वास्तव्य आचार्य आगन्तुकस्य भिक्षोरवस्थातुं न प्रयच्छति स वा भिक्षुत्रस्तव्यमाचार्यं बलादवज्ञाय तिष्ठति द्वयोरपि च चत्वारो गुरवस्तपसा कालेन च लघवः । एवमाचार्ये पूर्वस्थिते भणितम् । एवं वृषभा - 10 ऽभिषेक-भिक्षुभिरपि पूर्वस्थितैः प्रत्येकं चत्वारो गमाः कर्त्तव्याः, प्रायश्चित्तमप्येवमेव तपः-कालविशेषितम् । एवमेते सर्वसङ्ख्यया षोडश गमाः । अथवैतेष्वेव षोडशसु गमेषु प्रायश्चित्तप्ररूपणायामयमादेशः ——“चउगुरुगादि व जा लहुगो " त्ति अस्य भावना – आचार्य आचार्यस्यागतस्य स्थातुं न ददाति आगन्तुको वा प्रेरयति द्वयोरपि चत्वारो गुरवः उभयगुरुकाः । आचार्यो वृषभस्य न प्रयच्छति वृपभो वा बलात् तिष्ठति चतुर्लववः तपसा गुरुकाः । आचार्य एवाभिषेकस्य 15 न ददाति अभिषेको वा बलात् प्रेरयति मासगुरु कालेन गुरु । आचार्यः सामान्यभिक्षोरायातस्य स्थातुं नानुजानीते आगन्तुको वा भिक्षुर्वलादेवावतिष्ठते मासलघु उभयलघुकम् । एवं शेषेष्वपि द्वादशसु गमेषु चतुर्गुरुकादिकं लघुमासान्तं तपः - कालविशेषितमेवमेव प्रायश्चित्तम् ॥ १०७० ॥ तदेवं संयतानां संयतैः सह चारणिकया षोडश विकल्पा उक्ताः । अथ शेषविकल्पप्रदर्शनायाहएमेव य भयणा वी, सोलसिया एकमेक पक्खम्मि | उभयम्मि विनायव्वा, पेलमदेते व जं पावे ॥ १०७१ ॥ एवमेवैकैकस्मिन् पक्षे षोडशिका 'भजना' भङ्गरचना कर्त्तव्या । यस्तदुभयरूपो गणो न भवति किन्तु केवल एव संयतपक्षः संयतीपक्षो वा स एकैकपक्षोऽभिधीयते । तत्र संयतानां संयतैः सह प्रथमा षोडशभङ्गी, सा च सप्रपञ्चं भाविता । अथ संयतीभिः परिगृहीते क्षेत्रे अपराः संयत्यः समागच्छन्ति तत्रापि प्रवर्त्तिनी - गणावच्छेदिन्यभिषेका भिक्षुणीभिः पूर्वस्थताभिः सह प्रत्येकमा - 25 गन्तुकप्रवर्त्तिनी-गणावच्छेदिन्यभिषेका भिक्षुणीरूपाणां चतुर्णां पदानां चारणिकां कुर्वाणैरेवमेव षोडश भङ्गा रचयितव्याः, प्रायश्चित्तं चादेशद्वयेनापि तपः- कालविशेषितं तथैव वक्तव्यम् । एषा द्वितीया षोडशभङ्गी । एवं संयतानां चतुर्विधानां पूर्व स्थतानां संयतीभिः चतुर्विधाभिरागच्छन्तीभिरेवमेव तृतीया षोडशभङ्गी । संयतीनां चतुर्विधानां पूर्व स्थितानां संयतैश्चतुर्विधैरेवागच्छद्भिरेवमेव तुरीया षोडशभङ्गी । सर्वसङ्ख्यया जाता भङ्गानां चतुःषष्टिः । एते च केवलसंयत- 30 संयतीपक्षचारणिकया लब्धाः । अथोभयपक्षमधिकृत्याह --- "उभयम्मि वि नायव" ति उभय-शब्देनोभयगणाधिपतिः परिगृह्यते, तत्राप्येवमेव भङ्गरचना ज्ञातव्या । तथाहि - चतुर्विधोभयगणाधिपतिभिः परिगृहीते क्षेत्रे चतुर्विधैरेवागन्तुकसंयतैरागच्छद्भिः पूर्वोक्तनीत्यैव षोडश भङ्गाः, 20
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy