________________
३३४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् ३-५
विधिभिन्नानि कृत्वा वसतिम् 'अतियान्ति' प्रविशन्तीत्यर्थः । अथ बहिः स्थानं नास्ति ततः स्थानस्य 'असति' अभावे 'गणिनी' प्रवर्त्तिनी तस्यास्तानि समर्प्यन्ते, ततः सा गणिनी तानि ' भिनत्ति ' विधिभिन्नानि करोतीत्यर्थः, कृत्वा च तरुणीनां समुद्देष्टुं ददाति ॥ १०६६ || आह किं कारणं तरुणीनां प्रतिग्रहीतुं समुद्देष्टुं वा अभिन्ना - विधिभिन्नानि न दीयन्ते ! उच्यतेकक्खंतरुक्खवेगच्छियाइस मा हु णूमए तरुणी ।
5
'तो भिन्नं छुभति पडिग्गहेसु न य दिजए सयलं ।। १०६७ ।। कक्षाया अन्तरं कक्षान्तरम्, “उक्खो” त्ति परिधानवस्त्रैकदेशः, आह च निशीथचूर्णिकृत् — परिधाणवत्थस्स अब्भितरचूलाए उवरिकण्णो नाभिट्टा उक्खो भणइ ।। वैकक्षिकी-संयतीनामुपकरणविशेषः, एतेषु आदिशब्दादन्यस्मिन्नपि वस्त्रान्तरे तरुणी "मा 10 णूमए” त्ति “छदेर्णेर्णुम-णूम ० " ( सिद्ध० ८-४-२१ ) इति प्राकृतलक्षणाद् मा च्छादयेत् । ततो भिक्षाग्रहणकाले तस्याः प्रतिग्रहेषु भिन्नं प्रक्षिप्यते, न च 'सकलम्' अभिन्नमविधिभिन्नं वा तस्या भोजनकाले दीयते ॥ १०६७ ॥
एवं एसा जयणा, अपरिग्गहिए होइ खेतेसु । तिविहेहिं परिग्गहिए, इमा उ जयणा तहिं होइ ॥
१०६८ ।।
15 एवम् 'एषा' अनन्तरोक्ता यतना अपरिगृहीतेषु क्षेत्रेषु कर्त्तव्या भवति । 'त्रिविधैः ' संयतसंयली- तदुभयैः परिगृहीते “इमा" वक्ष्यमाणा यतना तत्र क्षेत्रे भवति ॥ १०६८ ॥
20
इदमेव स्फुटतरमाह
पुव्वोहि खेते, तिविहेण गणेण जइ गणो तिविहो ।
जाहि तयं खेत्तं, ओमे जयणा तहिं का णू ॥ १०६९ ।।
'त्रिविधेन' संयत- संयती - तदुभयरूपेण गणेन त्रिविधस्य वाऽन्यतरेण पूर्वमवगृहीते क्षेत्रे यदि त्रिविध एव गणो अवमकाले असंस्तरन् तकं क्षेत्रम् 'एयात्' आगच्छेत्, ततस्तेषामागतानां स्थातव्ये वास्तव्यानां वा अवग्रहे दातव्ये का 'नुः' इति वितर्के यतना ? ||१०६९॥ अत आह— आयरिय-वसभ-अभिसेग - भिक्खुणो पेल्ल लंभे न य देंति ।
गुरुगा दोहि विसिट्ठा, चउगुरुगाइ व्व जा लहुगो ।। १०७० ॥
यत् संयतपरिगृहीतं क्षेत्रं तदेषामन्यतरेण परिगृहीतं भवेत् । तद्यथा - आचार्येण वा वृषभेण वा अभिषेकेण वा भिक्षुणा वा । ये आगन्तुकास्तेऽप्येवमेव चत्वारो द्रष्टव्याः । संयत्योऽपि वास्तव्याः आगन्तुकाश्चैवमेव चतुर्विधाः । नवरमाचार्यस्थाने प्रवर्त्तिनी वृषभस्थाने गणावच्छेदिनी वक्तव्या । अत्र चाऽऽचार्यः प्रसिद्धः । उपाध्यायो वृषभानुग इति कृत्वा वृषभ उच्यते । यः
25
-
१ तासिं न छुभंति पडि भा० । एतत्पाठानुसारेणैव भा० पुस्तके वृत्तिर्वर्त्तते । दृश्यतां टिप्पणी २ ॥ २ तरुण्यः " मा णूमए" त्ति "छदेर्णेणुम-णूम० " ( सिद्ध० ८-४-२१ ) इति प्राकृतलक्षणाद् माच्छादयेयुः तत एतेन कारणेन भिक्षाग्रहणकाले 'तासां' तरुणीनां प्रतिग्रहेषु ‘संकलम्' अभिन्नमविधिभिन्नं वा न क्षिपन्ति न वा तासां भोजनकाले दीयते भा० पुस्तके ॥ ३ 'हेसु परि° ता० ॥