________________
भाष्यगाथाः १०६१-६६] प्रथम उद्देशः ।
३३३ प्रतिपद्यमाने किमेवं प्रायश्चित्तम् ? इत्याह-'यद्' यस्मात् कारणाद् जिनकल्पं प्रतिपन्नस्य या निर्जरा तस्याः सकाशाद् विपुला निर्जरा यथावत् संयतीः परिपालयतो भवतीति युक्तियुक्तमेव प्रायश्चित्तम् ॥ १०६३ ॥ अथ “जयणट्ठियाण गहणं" ति (गा० १०६०) यदुक्तं तत्र यया यतनया स्थितास्तामाह
उभयगणी पेहेङ, जहिँ सुद्धं तत्थ संजती णेति ।।
__ असती व जहिं भिन्ना, अभिन्न अविही इमा जयणा ॥१०६४॥ उभयः-साधु-साध्वीवर्गद्वयरूपो गणोऽस्यास्तीत्युभयगणी, स आचार्योऽवमकाले तोसलिप्रभृतिके प्रचुरप्रलम्बे देशे गत्वा गीतार्थेनाऽऽत्मना वा क्षेत्रद्वयं प्रत्युपेक्ष्य ययोः शुद्धं भक्तं लभ्यते न प्रलम्बमिश्रितमित्यर्थः तयोः क्षेत्रयोः पृथग् द्वावपि वर्गौ स्थापयति । यदि द्वे क्षेत्रे ईदृशे न स्तस्ततो यत्र शुद्धं भक्तं प्राप्यते तत्र संयतीः 'नयति' स्थापयति, यत्र पुनः प्रलम्बमिश्रितं तत्रा-10 ऽऽचार्या आत्मना तिष्ठन्ति । अथ नास्ति सर्वथा निर्मिश्रभक्तक्षेत्रं ततो यत्र प्रलम्बमिश्रितं भक्तं लभ्यते तत्र साध्वीः स्थापयन्ति, खयं तु निर्मिश्रप्रलम्बक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेषु निर्मिश्रप्रलम्बानि प्राप्यन्ते ततः "असई" ति प्रलम्बमिश्रस्याभावे यत्र विधिभिन्नानि प्राप्यन्ते तत्र संयत्यः स्थापनीयाः, खयं पुनरभिन्ना-ऽविधिभिन्नक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेवभिन्नान्यविधिभिन्नानि वा प्राप्यन्ते लत इयं यतना कर्तव्या ॥ १०६४ ॥ तामेवाह
15 भिन्नाणि देह भित्तूण वा वि असति पुरतो सि भिंदति ।
ठाविति ताहें समणी, ता चेव जयंति तेसऽसती ॥१०६५॥ यत्र क्षेत्रे संयतीः स्थापयितुकामास्तत् क्षेत्रं साधवः पूर्वमेवेत्थं भावयन्ति–यदा गृहस्थैः प्रलम्बान्यानीतानि भवन्ति तदा साधवो भणन्ति—यानि भिन्नानि तान्यस्मभ्यं दत्त । अथ न सन्ति भिन्नानि, सन्ति वा परं स्तोकानि, तैश्च संस्तरणं न भवतीति परिभाव्य साधवो भणन्ति-20 अस्मभ्यमेतानि भित्त्वा प्रयच्छत, न कल्पन्तेऽस्माकमीदृशानीति । अथ ते गृहस्थाः 'यदि रोचते तत ईशान्येव गृह्णीत' इत्युक्त्वा अभिन्नान्येव प्रयच्छन्ति ततः 'असति' अभावे "सिं" ति तेषां गृहस्थानां पुरतस्तानि प्रलम्बानि भिन्दन्ति भित्त्वा च गृह्णन्ति । एवंविधीयमाने गृहस्थानां चेतसि गाढतरं निश्चय उत्पद्यते, यथा-नूनं न कल्पन्ते अमीषामभिन्नानीति, ततस्ते भिन्नान्येव प्रयच्छन्तीति । एवं यदा तत् क्षेत्रं भावितं भवति तदा तत्र श्रमणीः स्थापयन्ति । 'तेषां' संय- 25 तानाम् 'असति' अभावे व्याप्तेषु वा तेषु क्वापि प्रयोजनान्तरे 'ता एव' संयत्यो यास्तत्र स्थवि. रास्ता एवमेव यतन्ते ॥ १०६५ ॥
भिन्नासति वेलातिकमे व गेहंति थेरिया मिन्ने ।
दारे भित्तु अतिंति व, ठाणासति भिंदती गणिणी ॥ १०६६ ॥ विधिना भिन्नानामसति, यावद् वा गृहस्थैर्भेदयन्ति आत्मना वा यावत् तत्र भिन्दन्ति तावद् 30 वेलातिक्रमो भवति, ततो याः स्थविरास्ता अभिन्नानि अविधिभिन्नानि वा यास्तु तरुण्यस्ता विधिभिन्नानि गृह्णन्ति । ततः प्रतिनिवृत्ताः स्थविरा अभिन्ना-प्रविधिभिन्नान्युपाश्रयद्वारे भित्त्वा
१ भविष्यतीति डे० त० ॥