________________
३३२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् ३-५
पायं च तत्थ वासति, पउरपलंबो उ अन्नो वि ।। १०६१ ॥
देशो द्विघा - अनूपो जङ्गलश्च । नद्यादिपानीयबहुलोऽनूपः, तद्विपरीतो जङ्गलः निर्जल इत्यर्थः । यद्वा अनूपो अजङ्गल इति पर्यायौ । तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिप्पत्तिः; अपरं च 'तत्र' तोसलिदेशे 'प्रायः ' बाहुल्येन वर्षति ततोऽतिपानीयेन विनष्टेषु सस्येषु प्रलम्बोपभोगो भवति; अन्यच्च तोसलिः प्रचुरप्रलम्बः, तत एतैः कारणैस्तोसलिग्रहणं कृतम् । अन्योऽपि य ईदृशः प्रचुरप्रलम्बस्तत्राप्येष एव विधिः ॥ १०६१ ॥ पुच्छ सहु-भीयपरिसे, चउभंगे पढमए अणुन्नाओ ।
सेस तिए नाणुन्ना, गुरुगा परियट्टणे जं च ॥ १०६२ ॥
"पुच्छ" ति शिष्यः पृच्छति — यदुक्तं भवद्भिः 'द्वयोर्वर्गयोः क्षेत्रद्वये स्थितयोः ' ( गा० 10 १०६० ) इत्यादि तत्र संयतीनां पृथक् क्षेत्रे स्थितानां व्यापारो वोढुं दुःशको भवति, दोषदर्शिनश्च यूयं पृथक्षेत्रे स्थापयथ, यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम्, प्रवचने च तत्र तत्र प्रदेशे संयत्यः प्रत्राजनीया उक्ता एव, अतः पर्यनुयुज्यते किं परिवर्त्तयितव्याः संयत्यः ? उत न ? इति । गुरुराह- - नास्त्यत्र कोsपि नियमो यदवश्यमेव परिवर्त्तयितव्या न वेति, यदि पुनः प्रव्राज्य न्यायतः परिवर्तयति ततो महतीं कर्मनिर्जरामासादयति, अथान्यायतः परि16 वर्त्तयति ततो महामोहमुपचित्य दीर्घसंसारसम्पातभाग् भवति । तर्हि कीदृशेन परिवर्त्तयितव्याः ? उच्यते-- “ सहु - मीयपरिसे" त्ति सहिष्णुर्भीतपर्षदिति पदद्वयेन चतुर्भङ्गी, सा चेयम् - सहिष्णुरपि मीतपर्षदपि १, सहिष्णुर्न मीतपरिषत् २, असहिष्णुः परं भीतपरिषद् ३, असहिष्णुरभीतपरिषच्चेति ४ । तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्य क्षेत्र-वस्त्र- पात्रादीनामुत्पादनायां प्रभविष्णुः सहिष्णुरुच्यते । यस्य तु सर्वोऽपि साधु-साध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरि20 षत् । तत्र प्रथमभङ्गे वर्त्तमानः परिवर्तनायामनुज्ञातः, शेषेषु त्रिषु भङ्गेषु वर्त्तमानो नानुज्ञातः, यदि परिवर्त्तयति तदा चत्वारो गुरुकाः । "जं च " ति द्वितीये भने आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत् सर्वमयमेव प्राप्नोति । तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गादीनि दृष्ट्वा यदाचरति तन्निप्पन्नम् । चतुर्थे भने द्वितीयतृतीयभङ्गदोषानवाप्नोतीति ॥ १०६२ ॥ प्रथमभङ्गवर्त्तिनमुद्दिश्याह
25
---
जइ पुण पव्वावेती, जावजीवाऍ ताउ पालेह |
अन्नासति कप्पे वि हु, गुरुगा जं निजरा विउला ।। १०६३ ॥ यदीत्यभ्युपगमे, ततश्चायमर्थः: -- ताः प्रथमतोऽपि यतस्ततः प्रत्राजयितुं न कल्पन्ते । यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावज्जीवं ताः पालयति, योगक्षेमविधानेन सम्यग् निर्वायतीत्यर्थः । स प्रथमभङ्गवर्ती यदि जिनकल्पं प्रतिपित्सुः अपरं चाऽऽर्यिका : परिवर्त्तयितव्याः 30 ततः किं करोतु ? इति चिन्तायां यद्यस्ति तदीये गच्छे कोऽप्यार्यिकाणां विधिना वर्त्तापकस्ततस्तस्य समर्प्य निकल्पं प्रतिपद्यताम्, अथ नास्त्यन्यो वर्त्तापकस्तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किन्त्वार्यिका एव परिवर्तयतु । कुतः ? इत्याह- अन्यस्य वर्त्तापकस्य असति - अभावे जिनकल्पेsपि प्रतिपद्यमाने 'हुः' निश्वये चत्वारो गुरुकाः । आह सकलकर्मक्षयाक्षूणकारणे जिनकल्पेऽपि