________________
भाष्यगाथाः १०५२-६०] प्रथम उद्देशः ।
३३१ कद्वेण व सुत्तेण व, संदाणिते अविहिभिन्न ते चेव ।
सविसेसतर व्व भवे, वेउव्वियभुत्तइत्थींणं ।। १०५६ ॥ 'काष्ठेन वा' शलाकादिना ‘सूत्रेण वा' दवरकादिना 'सन्दानिते' सङ्घातिते पूर्वाकारं स्थापिते इत्यर्थः, अविधिभिन्ने त एव दोषा ज्ञातव्या येऽभिन्ने भणिताः । सविशेषतरा वा भवेयुः, कथम् ? इत्याह-'विकुर्वितं' बेण्टकाद्याभरणेनालङ्कृतं यदङ्गादानं तेन याः स्त्रियो भुक्तपूर्वास्तासां प्रत्र-5 जितानां तत्र काष्ठादिसन्दानितप्रलम्बे विकुर्विताङ्गादानकल्पे दृष्टे समधिकतरा दोषा उपढौकन्ते (ग्रन्थानम्-४०००) ॥ १०५६ ॥ अथार्थतः कारणिकं सूत्रमुपदर्शयन्नाह
विहिभिन्नं पि न कप्पइ, लहुओ मासो उ दोस आणाई ।
तं कप्पती न कप्पइ, निरत्थगं कारणं किं तं ॥१०५७ ॥ यदपि सूत्रे विधिभिन्नमनुज्ञातं तदपि न कल्पते । यदि गृहन्ति ततो मासलघु आज्ञादयश्च 10 दोषाः । आह ननु सूत्रे भणितं 'तद्' विधिभिन्नं कल्पते ? गुरुराह-यद्यपि सूत्रे अनुज्ञातं तथापि न कल्पते । यद्येवं तर्हि निरर्थकं सूत्रम् , नैवम् , कारणिकं सूत्रम् । आह किं पुनः तत् कारणं यदद्यापि नाभिधीयते ॥ १०५७ ॥ उच्यते, ब्रूमः
गेलन्नद्धाणोमे, तिविहं पुण कारणं समासेणं । गेलन्ने पुन्बुत्तं, अद्धाणुवरि इमं ओमे ॥ १०५८॥
15 म्लानत्वम् अध्वा अवमौदर्यम् , एतत् 'समासेन' सङ्केपेण त्रिविधं कारणम् । तत्र ग्लानत्वे इहैव प्रलम्बप्रकृते "विजे पुच्छण जयणा" (गा० १०२७) इत्यादि पूर्वोक्तं द्रष्टव्यम् । अध्वनि तु 'उपरि' अध्वसूत्रे इहैवोद्देशके भणिष्यते । 'इदम्' अनन्तरमेव वक्ष्यमाणम् अवमे द्रष्टव्यम् ॥ १०५८ ॥ निग्गंथीणं भिनं, निग्गंथाणं च भिन्न भिन्नं तु ।
20 जह कप्पइ दोण्हं पी, तमहं वोच्छं समासेणं ॥ १०५९ ॥ निर्ग्रन्थीनां नियमाद् विधिना षष्ठे भङ्गे भिन्नम् , निम्रन्थानां च चतुर्थ-तृतीययोर्भङ्गयोभिन्नमभिन्नं वा, यथा द्वयोरपि वर्गयोः कल्पते तदहं वक्ष्ये समासेन ॥ १०५९ ॥ यथाप्रतिज्ञातमेव निर्वाहयति--
ओमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु ।
जयणट्टियाण गहणं, भिन्नाभिन्न व जयणाए ॥१०६०॥ अवमकाले साधवः साध्व्यश्च तोसलिविषयं गत्वा स्थिताः । तत्र द्वावपि वर्गों द्वयोः क्षेत्रयोः स्थितौ, एकस्मिन् क्षेत्रे संयता द्वितीयस्मिन् संयत्य इत्यर्थः । तथा यदुत्सर्गत एकत्र क्षेत्रे मिलितो नावतिष्ठेते एषैव यतना तया स्थितौ यतनास्थितौ, यद्वा साधु-साध्वीप्रायोग्यं विधिं ग्राहयित्वा यौ स्थितौ तौ यतनास्थितौ, तयोरेवंस्थितयोः 'यतनया' वक्ष्यमाणया भिन्नस्याभिन्नस्य वा ग्रहणं 30 कल्पते ॥ १०६० ॥ आह कोऽयं नियमो येन तोसलेरेव ग्रहणं कृतम् ? उच्यते
__ आणुग जंगल देसे, वासेण विणा वि तोसलिग्गहणं । . १°दर्यम् इति 'समा मो० ॥
25