________________
३२९
भाष्यगाथाः १०४६-५१] प्रथम उद्देशः । द्वयोः पक्षयोः समाहारो द्विपक्षं-स्त्री-पुरुषवर्गद्वयं तस्मिन् द्विपक्षेऽपि मोहोद्भवं प्रति केचित् तुल्याः केचित् त्वतुल्याः ॥ १०४९॥ तानेवाह
रस-गंधा तहिं तुल्ला, सद्दाई सेस भय दुपक्खे वि।
सरिसे वि होइ दोसो, किं पुण ता विसम वत्थुम्मि ।। १०५० ॥ स्त्रीणां पुरुषाणां च 'तत्र' मोहोद्भवे रस-गन्धास्तुल्याः । किमुक्तं भवति?—यथा स्निग्ध-5 मधुरादिरसैः सक्-चन्दनादिगन्धैश्च पुरुषाणामिन्द्रियाणि मोहोद्रेकभाञ्जि भवन्ति तथा स्त्रीणामपीति मोहोद्भवं प्रति रस-गन्धास्तुल्याः । 'शेषान्' शब्द-रूप-स्पर्शान् ‘भज' विकल्पय 'द्विपक्षेऽपि' उभयपक्षयोरपि । यतः पुरुषस्य पुरुषसम्बन्धिनि शब्दे श्रुते रूपे दृष्टे स्पर्शे च स्पृष्टे मोहोदयो भवेद् वा न वा, यदि भवेन्न तादृशस्तीत्रः, स्त्रीसम्बन्धिनि तु प्रायो भवत्येव तीत्रश्च जायते; स्त्रियास्तु स्त्रीसम्बन्धिषु शब्द-रूप-स्पर्शेपु गोचरमुपागतेषु मोहोडेको भवेद् वा न वा, यदि भवेन्न 10 तादृशस्तीत्रः, पुरुषसम्बन्धिषु तु प्रायो भवत्येव तीव्रश्च भवति । तदेवं सदृशेऽपि स्पर्शादौ वस्तुनि दोषो भवति, किं पुनस्तावद् 'विषमे' विसदृशे वस्तुनि ? इति । यतश्चैवमतः सलोम-निर्लोमादीन्यतुल्यनिदानानि विशेषतः परिहियन्ते; अत एव चात्राभिन्नमविधिभिन्नं च न कल्पते॥१०५०॥
गतमभिन्ने महाव्रतपृच्छेति द्वारम् । मिथ्यात्वंद्वारं तु सुबोधत्वाद् भाष्यकृता न भावितम् । अथ विराधनाद्वारम्-अभिन्नं गृह्णतीनां निर्ग्रन्थीनामात्मनो ब्रह्मव्रतस्य वा विराधना भवेत् । 15 अत्र च देव्या दृष्टान्तः । तमेवाह
चीयत्त कक्कडी कोउ कंटक विसप्प समिय सत्थे य ।
पुणरवि निवेस फोडण, किमु समणि निरोह भुत्तितरा ॥ १०५१ ॥ एगस्स रन्नो महादेवी । तीसे कक्कडियाओ पियाओ । ताओ अ एगो णिउत्तपुरिसो दिणे दिणे आणेति । अण्णया तेण पुरिसेण अहापवित्तीए अंगादाणसंठिया ककडिया आणिता । 20 तीसे देवीए तं कक्कडियं पासेत्ता कोतुयं जायं--पेच्छामि ताव केरिसो फासो त्ति एयाए पडिसेवियाए ? । ताहे ताए सा कक्कडिया पादे बंधिउं सागारियट्ठाणं पडिसेविउमाढत्ता । तीसे कक्कडियाए कंटओ आसी, सो तम्मि सागारिए लग्गो । विसप्पियं च तं । ताहे वेज्जस्स सिढें । ताहे वेज्जेणं समिया मद्दिया, तत्थ निवेसाविया, उट्ठवेत्ता सुसियप्पदेसं चिंधियं । तम्मि पदेसे तीए अपेच्छमाणीए सत्थयं उप्परामुहधार खोहियं । पुणो तेणेवागारेण णिवेसाविया । फोडियं । 25 पूएण समं निग्गओ कंटओ । पउणा जाया । जति ताव तीसे देवीए दंडिएण पडिसेविजमाणीए कोउयं जायं, किमंग पुण समणीणं णिच्चणिरुद्धाण भुत्तभोगीणं अभुत्तभोगीण य?॥
अथ गाथाक्षरार्थ:---राज्ञः कस्यचिद् देव्याः कर्कटिकाः “चीयत्ता” इति प्रीतिकराः, रुच्या इत्यर्थः । अङ्गादानाकारां च कर्कटिकां दृष्ट्वा कौतुकमुत्पन्नम् । ततः प्रतिसेवमानायास्तस्याः कण्टकः सागारिके लग्नः । विसर्पितं च तत् सागारिकम् । ततो वैद्येन 'समिता' कणिका तस्यां 30 मर्दितायां निवेशिता । ततः शुष्कप्रदेशे शस्त्रकं प्रक्षिप्तम् । ततः पुनरपि तथैव निवेश्य तेन शस्त्रकेण सागारिकस्य पाटने कृते पूयेन समं कण्टके निर्गते प्रगुणीकृता । यदि तस्या अप्येवं१फोडण ता. विना ॥