________________
10
३२८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् ३-५ नामपि षण्महाव्रतानि दश वा येनैवमभिधीयते ? उच्यते
__न वि छम्महव्वया नेव दुगुणिया जह उ भिक्खुणीवग्गे ।
____ बंभवयरक्खणट्ठा, न कप्पती तं तु समणीणं ॥१०४६ ॥ नापि निर्ग्रन्थीनां षड् महाव्रतानि, नैव साधूनां सम्बन्धिभ्यः पञ्च महाव्रतेभ्यः 'द्विगुणि5 तानि' दशेत्यर्थः, यथा सौगतानां मते भिक्षुणीवर्गे द्विगुणानि शिक्षापदानि भवन्ति न तथाऽत्र किन्तु पञ्चैवेति भावः । यद्येवं तर्हि किमर्थमत्र निर्ग्रन्थीनामभिन्नं न कल्पते ? उच्यते-ब्रह्मव्रतरक्षणार्थ 'तत्तु' अभिन्नं श्रमणीनां न कल्पते, मा करकर्मादिकमनेन कार्युरिति कृत्वा ॥ १०४६ ॥ न केवलमत्रैव प्रलम्बे श्रमणीनां विशेषः किन्त्वन्यत्रापीति दर्शयति
अन्नत्थ वि जत्थ भवे, एगयरे मेहुणुब्भवो तं तु ।।
तस्सेव उ पडिकुटुं, विइयस्सऽन्नेण दोसेणं ॥१०४७॥ अन्यत्रापि यत्र भुक्ते स्पृष्टे वा “एगयरे" इति षष्ठी-सप्तम्योरर्थ प्रत्यभेदात् 'एकतरस्य' साधुपक्षस्य साध्वीपक्षस्य वा मैथुनोद्भवो भवति तत्तु' वस्तु तस्यैव' विवक्षितपक्षस्य, तुशब्दो मैथुनोद्भवदोषपरिहारार्थमित्यस्यार्थस्य सूचनार्थः, 'प्रतिक्रुष्टं' प्रतिषिद्धम् । द्वितीयस्य तु पक्षस्य तदेव 'अन्येन' असंयमलक्षणेन दोषेण प्रतिषिध्यते ॥ १०४७ ॥ निदर्शनमाह
निल्लोम-सलोमऽजिणे, दारुगदंडे सवेंट पाए य।
बंभवयरक्खणट्ठा, वीसुं वीसुं कया सुत्ता ॥ १०४८॥ यथा निम्रन्थानां निर्लोमाजिनं स्मृतिकरण-कौतुकादिदोषपरिहारार्थं प्रतिषिद्धम् , निम्रन्थीनां पुनः प्राणिदयानिमित्तमतिरिक्तोपधिभारपरिहारार्थं च तदेव प्रतिषिध्यते; एवं सलोमाजिनं निम्रन्थीनां स्मृतिकरणादिदोषनिवारणार्थम् , निर्ग्रन्थानां पुनस्तदेव प्राणिदयानिमित्तं प्रतिषिद्धम् । 20 दारुदण्डकं पादप्रोञ्छनं सवृन्तपात्रं च निर्ग्रन्थीनां ब्रह्मव्रतानुपालनार्थं निर्ग्रन्थानां पुनरतिरिक्तोपधिदोषपरिहरणार्थं नानुज्ञातम् । एवं ब्रह्मव्रतरक्षणार्थं निर्ग्रन्थानां निर्ग्रन्थीनां च 'विप्वग् विष्वक्' पृथक् पृथक् सूत्राणि कृतानि ॥ १०४८ ॥ आह कर्मोदयादेव प्राणिनां मैथुनोद्भवो भवति, ततः किमेवं सलोमादिपरिहारः क्रियते ? उच्यते
नत्थि अनिदाणओ होइ उब्भवो तेण परिहर निदाणं ।
ते पुण तुल्ला-ऽतुल्ला, मोहनिदाणा दुपक्खे वि ॥ १०४९ ॥ निदानं कारणमित्येकोऽर्थः, तच्चेहेष्टशब्द-रूप-रस-गन्ध-स्पर्शात्मकं यत् प्रतीत्य पुरुषवेदादिमोहनीयमुदयमासादयति । तदुक्तम्
दबं खेत्तं कालं, भावं च भवं तहा समासज्ज ।
तस्स समासुद्दिट्टो, उदओ कम्मस्स पंचविहो । 30 ततश्च 'नास्ति' न विद्यते एतद् यद् 'अनिदानकः' निदानमन्तरेण मोहनीयोद्भवो भवति, 'तेन' कारणेन परिहर 'निदानम्' इष्टशब्दादिरूपम् । 'ते पुनः' शब्दादयो मोहनिदानभूता
१ भा० विनाऽन्यत्र-तत्तु 'तस्यै त । तत्तत्र वस्तु मो० ले० कां० ॥ २°यादिनि भा० ॥ ३ भवं च भावं तहा मो० ॥