SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १०३६-४५] प्रथम उद्देशः । ३२७ आयेषु त्रिषु भङ्गेषु परीत्तवनस्पतौ चत्वारो लघुकाः प्राग्वत् तपः-कालविशेषिताः, भावतोऽभिन्नत्वात् । उत्तरेषु त्रिषु भङ्गेषु परीत्तवनस्पतावेव लघुको मासस्तपः-कालविशेषितः प्राग्वत् , भावतो भिन्नत्वात् । अनन्तवनस्पतौ तु त एव गुरुकाः कर्तव्याः, चत्वारो गुरवो गुरुमासाश्चेति भावः । इत्थं पट्खपि भङ्गेषु संयतीनां प्रायश्चित्तानि द्रष्टव्यानि ॥ १०४१ ॥ अथ हस्तकर्मसम्भवा-ऽसम्भवौ चेतसि व्यवस्थाप्य प्रकारान्तरेणात्रैव प्रायश्चित्तमाह- 5 अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा । छट्ठम्मि हवति लहुतो, लहुगत्थाणे गुरूऽणते ॥ १०४२ ॥ अथवा प्रथमे भने गुरुकाः, अभिन्नत्वात् । द्वितीयेऽपि गुरुकाः, अविधिभिन्नत्वात् । तृतीये लघुकाः, विधिभिन्नत्वात् । चतुर्थे गुरुकाः, अभिन्नत्वात् । पञ्चमेऽपि गुरुकाः, अविधिभिन्नत्वात् । षष्ठे लघुको मासः, विधिभिन्नत्वाद् अचित्तत्वाच्च । एतच्च परीत्ते भणितम् । अनन्ते तु लघुक-10 स्थाने गुरुकम् , यत्र चतुर्लघवस्तत्र चतुर्गुरवो यत्र लघुमासस्तत्र गुरुमास इत्यर्थः ॥ १०४२ ॥ आयरिओं पवत्तिणीए, पवित्तिणी भिक्खूणीण न कहेइ। गुरुगा लहुगा लहुओ, तत्थ वि आणाइणो दोसा ॥ १०४३ ॥ गेण्हंतीणं गुरुगा, पवत्तिणीए पवत्तिणी जइ वा । न सुणेती गुरुगाती, मासलहू भिक्खुणी जाव ॥ १०४४ ॥ 18 एतत् प्रलम्बसूत्रमाचार्यः प्रवर्त्तिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः । यदि भिक्षुण्यो न शृण्वन्ति ततो लघुमासः । 'तत्रापि' अकथनेऽश्रवणे वा आज्ञादयो दोषाः ॥ १०४३ ॥ यदि भिक्षुणीनां प्रलम्बं गृह्णतीनां प्रवर्तिनी सारणादिकं न करोति तदा प्रवर्तिन्याश्चत्वारो गुरवः । प्रवर्तिनी यद्याचार्याणां कथयतां न शृणोति तदा चत्वारो गुरवः । प्रवर्त्तिन्याः पार्श्वे 20 गणावच्छेदिनी न शृणोति चत्वारो लघवः । अभिषेका न शृणोति मासगुरु । भिक्षुणी न शृणोति मासलघु ॥ १०४४ ॥ अथ निम्रन्थीरधिकृत्य द्वारगाथामाह अभिन्ने महव्वयपुच्छा, मिच्छत्त विराहणा य देवीए ।। किं पुण ता दुविहाओ, भुत्तभोगी अभुत्ता य ॥१०४५॥ अभिन्ने महाव्रतपृच्छा कर्तव्या । तथा अङ्गादानसदृशमभिन्नं प्रलम्बं गृह्णती निर्ग्रन्थीं दृष्ट्वा 25 कश्चिद् मिथ्यात्वं व्रजेत्--यदेषा अङ्गादानाकारमेवंविधं फलं गृह्णाति तद् नूनमेतेषां तीर्थकृता नैष दोषो दृष्टः, असर्वज्ञ एवामीषां गुरुरित्यादि । विराधना भवेत् । तत्र च देव्या दृष्टान्तो वक्तव्यः । यदि च तस्या अपि देव्याः प्रतिसेवनाकौतुकं समजनि किं पुनः श्रमणीनाम् ? इति वक्तव्यम् । ताश्च श्रमण्यो द्विविधाः-भुक्तभोगिन्योऽभुक्तभोगिन्यश्चेति समासार्थः ॥ १०४५ ॥ ___ अथ विस्तरार्थोऽभिधीयते-तत्र प्रथममभिन्ने महाव्रतपृच्छाद्वारम् , शिष्यः पृच्छति--30 निम्रन्थानां भिन्नमभिन्नं वा पक्कं कल्पते, निर्ग्रन्थीनां पुनर्भिन्नमेव कल्पते नाभिन्नम् तदपि विधिभिन्नमित्यत्र यथा भेदस्तथा किमेवं महाव्रतेष्वपि तासां भेदः ?; यथा किल तच्चन्निकानां मते मिथूणामर्द्धतृतीयानि शिक्षापदशतानि भिक्षुणीनां पञ्च शिक्षापदशतानि, एवं किं निम्रन्थी
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy