________________
३२६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् ३-५ पक्कम् । अन्योऽप्यादेशो वर्त्तते—येन यद् आयुष्कं निर्वर्तितं तत् सर्वमनुपाल्य प्रियमाणस्य निरुपक्रमायुर्जीवस्य यद मरणं तद् भावपक्कम् । अत्र च द्रव्यपक्केणाधिकारः, तत्रापि पर्यायपक्केण, तत्रापि वृक्षपर्यायपक्केणेति ॥ १०३५॥ गतं पक्कपदम् । अथ भिन्ना-ऽभिन्नपदे व्याचष्टे
पक्के भिन्ना-भिन्ने, समणाण वि दोसों किं तु समणीणं ।
समणे लहुओ मासो, विकडुमाई य ते चेव ॥ १०३६ ॥ 'पक्वं' यद् निर्जीवं तद् द्रव्यतो भिन्नं वा स्यादभिन्नं वा, तत्रोभयेऽपि श्रमणानामपि दोषो भवति 'किं तु किं पुनः श्रमणीनाम् ? । श्रमणा यदि गृह्णन्ति ततो मासलघु द्वाभ्यामपि तपः-कालाभ्यां लघुकम् , विकटुभ-पलिमन्थादयश्च त एव दोषाः ॥ १०३६ ॥ इदमेव स्फुटतरमाह10
आणादि रसपसंगा, दोसा ते चेव जे पढमसुत्ते ।
इह पुण सुत्तनिवाओ, ततिय-चउत्थेसु भंगेसु ॥ १०३७ ॥ आज्ञादयो रसप्रसङ्गादयश्च दोषास्त एव पक्कप्रलम्बग्रहणेऽपि भवन्ति ये प्रथमसूत्रे अभिहिताः । यद्येवं ततः सूत्रमपार्थकमित्याह-इह पुनः सूत्रनिपातस्तृतीय-चतुर्थयोर्भङ्गयोर्भवति, भावतो भिन्नमिति कृत्वा तृतीय-चतुर्थरूपं भङ्गद्वयमधिकृत्य सूत्रं प्रवृत्तमिति भावः ॥ १०३७ ॥
एमेव संजईण वि, विकडुभ-पलिमंथमाइया दोसा।
कम्माईया य तहा, अविभिन्ने अविहिभिन्ने य ॥१०३८ ॥ - एवमेव संयतीनामपि विकटुभ-पलिमन्थादयो दोषाः । तथा अविभिन्नेऽविधिभिन्ने च प्रलम्बे
हस्तकर्मादयः सविशेषा दोषा मन्तव्याः, अतस्तासां विधिभिन्नमेव कल्पते नाविधिभिन्नम् ।।१०३८॥ ___अत्र च षड्भङ्गीमाह- .
विहि-अविहीभिन्नम्मि य, समणीणं होंतिमे उ छ भंगा। पढमं दोहि अभिन्नं, अविहि-विही दव्य विइ-तइए ॥ १०३९ ॥ एमेव भावतो वि य, भिन्ने तत्थेक्क दव्वओं अभिन्न ।
पंचम-छट्टे दोहि वि, नवरं पुण पंचमे अविही ॥ १०४० ॥ "से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने" ( उ० १ सू० ५) इत्यत्र श्रमणीनां 25 सूत्रे इमे षड् भङ्गा भवन्ति । “पढमं" इत्यादि, प्रथमं 'द्वाभ्यामपि' भावतोऽपि द्रव्यतोऽप्यभिन्नम् ,
द्वितीयं भावतोऽभिन्नं द्रव्यतोऽविधिभिन्नम् , तृतीयं भावतोऽभिन्नं द्रव्यतो विधिभिन्नम् ॥१०३९॥ ____ एवमेव भावतो भिन्नेऽपि भङ्गत्रयम् । तत्रैकं चतुर्थ भावतो भिन्नं द्रव्यतोऽभिन्नम् , पञ्चमषष्ठौ भङ्गो द्वाभ्यामपि भिन्नौ, 'नवरं' केवलं पञ्चमेऽविधिभिन्नम् , भावतो भिन्नं द्रव्यतोऽविधिभिन्नमिति भावः । अर्थादापन्नं षष्ठे भावतो भिन्नं द्रव्यतो विधिभिन्नमिति ॥ १०४० ॥ 30 अर्थ षट्खपि भनेषु यथाक्रमं प्रायश्चित्तमाह
लहुगा तीसु परित्ते, लहुओ मासो उ तीसु भंगेसु ।
गुरुगा होति अणंते, पच्छित्ता संजईणं तु ॥ १०४१ ॥ १य छ मंगा होंतिमे उ समणीणं ता० ॥ २ य ता०॥
20