________________
भाप्यगाथाः १०२४-३० ]
प्रथम उद्देशः ।
३२३
इयं यतना - वैद्यस्य समीपे एकः प्रच्छको न गच्छति, मा 'यमदण्ड आगतः' इति निमित्तं ग्रहीत् ; द्वावपि न व्रजतः, 'यमदूतावेतौ' इति मननात् ; आदिशब्दात् चत्वारोऽपि न व्रजन्ति, 'नीहरणकारिण एते' इति कृत्वा ; यत एवं ततस्त्रयः पञ्च वा गच्छन्ति इत्यादिको विधिस्तावद् ज्ञेयो यावत् 'किमस्मिन् रोगे प्रतिकर्तव्यम् ?' इति पृष्टः सन् स वैद्यश्चतुष्कोपदेशं दद्यात् । तद्यथा— द्रव्यतः क्षेत्रतः कालतो भावतश्च । एते च ग्लानद्वार एव व्याख्यास्यन्ते । इह पुनर्द्रव्यतः प्रलम्बानि, पुरुषाश्च त्रयः 'आचार्यादयः' आचार्योपाध्याय - भिक्षुरूपा द्रष्टव्या इति । तंत्र वैद्यः पृष्टः कदाचिदेवमभिदध्यात् - यादृशं रोगं यूयं कथयत ईदृशस्योपशमनार्थमिदं वनस्पतिजातं ग्लानस्य दातव्यम् ॥ १०२८ ॥
स च वनस्पतिर्यो यस्य रोगस्योपशमनाय प्रभवति तद्विषयं तमभिधित्सुराह - पउमुप्पलें माउलिंगे, एरंडे चैव निंबपत्ते य ।
पित्तुदय सन्निवाए, वायक्कोवे य सिंभे यं ।। १०२९ ॥
पित्तोदये पद्मोत्पलमौषधम्, सन्निपाते 'मातुलिङ्गं' बीजपूरकम्, वातप्रकोपे एरण्डपत्राणि "सिंभे "त्ति श्लेष्मोदये निम्बपत्राणि ॥। १०२९॥
अथ यदुक्तं “तिन्नि य पुरिसाऽऽयरियमाइ " ( गा० १०२८ ) ति तदेतद् भावयति — गणि-वसभ-गीत- परिणामगा य जाणंति जं जहा दव्वं ।
इयरे सिं वाउलणा, नायम्मि य भंडि - पोउवमा ।। १०३० ।।
योऽसौ ग्लानः स गणी - आचार्यो वृषभः - उपाध्यायो भिक्षुश्चेति त्रयः पुरुषाः । अत्र भिक्षुद्विधा - गीतार्थोऽगीतार्थश्च परिणामकोऽपरिणामको वा । तत्र गणि वृषभ-गीतार्थभिक्षूणां त्रयाणां पुरुषाणां प्राशुकेपणीयेन द्रव्येणाऽऽलेपनादि कर्त्तव्यम् ; यदा प्राशुकमेषणीयं वा न प्राप्यते तदा तदितरेणापि कर्त्तव्यम् । एतेषां च यद् यथा गृहीतं तत् तथैव निवेद्यते, निवेदिते च ते 20 तथैवागमप्रामाण्येन सचित्तमचित्तं वा शुद्धमशुद्धं वा द्रव्यं यद् यस्मिन्नवसरे कल्पते तद् यथावद् जानन्ति । यस्त्वगीतार्थः परं पारिणामिकः सोऽपि यद् यथा क्रियते तत् तथैव परिणामकत्वात् कथितं सद् जानीते | ‘इतरे' अपरिणामकाः सन्तो येऽगीतार्थास्तेषां न कथ्यते, यथा 'अप्राशुकमनेषणीयं वा गृहीतम्' किन्तु तेषां व्याकुलना क्रियते, यथा 'अमुकगृहादात्मार्थं कृतमानीतमिदम्' । अथ कथमपि तैर्ज्ञातं यथा 'एतदप्राशुकमनेषणीयं वा' ततो ज्ञाते सति भण्डी - गन्त्री 25 पोतः - प्रवहणं तदुपमा कर्त्तव्या । यथा
जा एगदेसे अददा उ मंडी, सीलप्पए सा उ करेति कज्जं ।
जा दुब्बला सीलविया वि संती, न तं तु सीलेंति विसिन्नदारुं ॥ [नि.भा.४८९३ ] (कल्पबृहद्भाष्ये )
'शीलाप्यते' समारच्यते इत्यर्थः । तथा—
जो गदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कज्जं ।
10
१ एतश्च भा० ॥ २ स्यते भा० ॥ ३ स च वै भा० ॥ ४ 'त्राणि । एतानि चतुर्ष्वपि रोगेषु यथासङ्ख्यमौषधानि ॥ १०२९ ॥ भा० ॥
15
30