________________
३२२
सनियुक्ति-लधुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् २ गंडी-कोढ-खयाई, रोगो कासाइगो उ आयंको ।
दीहरुया वा रोगो, आतंको आसुघाती उ॥१०२४ ।। गण्डी-गण्डमालादिकः, कुष्ठं–पाण्डुरोगो गलत्कोष्ठं वा, क्षयः-राजयक्ष्मा, आदिशब्दात् श्लीपद-श्वयथु-गुल्मादिकः सर्वोऽपि रोग इति व्यपदिश्यते । कासादिकस्तु आतङ्कः, आदिग्रह5णेन श्वास-शूल-हिक्का-ज्वरा-ऽतीसारादिपरिग्रहः । अथवा दीर्घकालभाविनी सर्वाऽपि रुग् रोग उच्यते । यस्तु आशुधाती विसूचिकादिकः स आतङ्कः ॥ १०२४ ॥ ___ अथ सामान्यतो ग्लानत्वे विधिमाह
गेलन्नं पि य दुविहं, आगाढं चेव नो य आगाढं ।
आगाढे कमकरणे, गुरुगा लहुगा अणागाढे ॥ १०२५ ॥ 10 ग्लानत्वमपि द्विविधम् --आगाढं चैव नोआगाढं च अनागाढमित्यर्थः । आगाढे यदि क्रमेणपञ्चकपरिहाण्या करोति ततश्चत्वारो गुरवः, अनागाढे तु यद्यागाढकरणीयं करोति तदा चत्वारो लघवः ॥ १०२५ ।। एतदेव स्पष्टयन्नाह
आगाढमणागाढं, पुव्युत्तं खिप्पगहणमागाढे ।
फासुगमफासुगं वा, चउपरियÉ तऽणागाढे ॥ १०२६ ॥ 15 आगाढमनागाढं च 'पूर्वोक्तम्' “अहिडक विस विसूइय" (गा० ९५४) इत्यादिना पूर्वमेव व्या
ख्यातम् । तत्रागाढे शूल-विसूचिकादौ ग्लानत्वे समुत्पन्ने प्राशुकमप्राशुकं वा एषणीयमनेषणीयं वा क्षिप्रमेव ग्रहीतव्यम् । अथागाढे त्रिःपरिवर्तनरूपया पञ्चकपरिहाणिरूपया वा यतनया क्रमेण गृह्णाति ततश्चत्वारो गुरवः । अनागाढे पुनस्विकृत्वः परिवर्तने कृतेऽपि यदि शुद्धं न प्राप्यते ततश्चतुर्थे परिवर्ते पञ्चकादियतनया अनेषणीयं गृह्णाति । अथानागाढे त्रिःपरिवर्तनं पञ्चकपरिहाणिं 20 वा न करोति ततश्चतुर्लघवः ।। १०२६ ॥ अथ ग्लानत्वविषयां यतनामाह
विजे पुच्छण जयणा, पुरिसे लिंगे य दव्वगहणे य ।
पिट्ठमपिढे आलोयणा य पत्रवण जयणा य ।। १०२७ ।। प्रथमतो वैद्यखरूपं वक्तव्यम् । ततस्तस्य पार्श्वे यथा प्रच्छने यतना क्रियते तथा वाच्यम् । 'पुरुषः' आचार्यादिकोऽभिधातव्यः । “लिंगे य" त्ति खलिङ्गेनाऽन्यलिङ्गेन वा यथा प्रलम्बग्रहणं 25 भवति तथा वक्तव्यम् । 'द्रव्यग्रहणं वा' लेपादिद्रव्योपादानमभिधानीयम् । पिष्टस्यापिष्टस्य च प्रलम्बस्य ग्रहणे विधिर्वक्तव्यः । तत आलोचना प्रज्ञापना यतना चाभिधातव्येति नियुक्तिगाथासमासार्थः ॥ १०२७ ॥ अथास्या एव भाष्यकृद् व्याख्यानमाह
वेजहग एगद्गादिपुच्छणे जा चउक्कउवएसो।
इह पुण दव्वें पलंबा, तिनि य पुरिसाऽऽयरियमाई ॥१०२८ ॥ 30 'वैद्याष्टकम्' अष्टौ वैद्याः
संविग्ग १ मसंविग्गा २, लिंगी ३ तह सावए ४ अहाभद्दे ५ ।
अणभिग्गहमिच्छे ६ तर ७, अट्ठमए अन्नतित्थी य ८॥ इति गाथोक्ताः प्रष्टव्याः । एते च मासकल्पप्रकृते ग्लानद्वारे व्याख्यास्यन्ते । एतेषां च प्रच्छने