________________
भाष्यगाथाः १०१८-२३ ]
प्रथम उद्देशः ।
३२१
‘एतैः’ अनन्तरोक्तैः कारणैरागादैरुत्पन्नैः सद्भिर्गम्यते । गच्छद्भिश्वाध्वप्रायोग्यमुपकरणं गुलि - कादिकं गृहीत्वा सार्थः पूर्वमेव प्रत्युपेक्षणीयः, तेन पूर्वप्रत्युपेक्षितेन सार्थेन सार्द्धं गन्तव्यम् ॥ १०२० ॥ अत्र विधिमाह -
अद्धाणं पविसंतो, जाणगनीसाए गाहए गच्छं ।
अह तत्थ न गाहेजा, चाउम्मासा भवे गुरुगा ।। १०२१ ॥
अध्वानं प्रविशन्नाचार्यो ज्ञायकः - गीतार्थस्तन्निश्रया गच्छं सकलमप्यध्वकल्पस्थितिं ग्राहयति । अथ ‘तत्र' अध्वप्रवेशेऽध्वकल्पस्थितिमाचार्या न ग्राहयेयुस्ततश्चतुर्मासा गुरवः प्रायश्चित्तं भवेयुः || १०२१ ॥ स्यान्मतिः - कः कथं वा गच्छमध्वकल्पं ग्राहयति ? इति उच्यतेगीयत्थेण सयं वा, गाहइ छड़ितों पच्चयनिमित्तं ।
सारंति तं सुत्था, पसंग अप्पच्चओ इहरा ॥। १०२२ ॥
यद्याचार्य आत्मना केनापि कार्येण व्यापृतस्ततोऽन्येनोपाध्यायादिना गीतार्थेन, अथ न व्याटतस्ततः ‘स्वयम्’ आत्मनैवान्यगीतार्थान् पुरतः कृत्वा अध्वकल्पसामाचारीं गच्छं ग्राहयति । स च कथको ग्राहयन्नन्तराऽन्तरा अर्थपदजातं ' छर्दयन् परित्यजन् कथयति । ततो ये ते 'श्रुतार्थाः ' गीतार्थास्ते ‘तद्' अर्थपदजातं त्यक्तं सत् स्मारयन्ति, यथा-- विस्मृतं भवतामेतच्चैतच्चार्थपदमिति । किंनिमित्तमेवं क्रियते ? इत्याह- अगीतार्थानां प्रत्ययनिमित्तम्, यथा सर्वेऽप्येते 15 यदेनां सामाचारीमित्थमेव जानन्ति तन्नूनं सत्यैवेयमिति । ' इतरथा' यद्येवं न क्रियते ततस्तेषामगीतार्थानां मध्ये येऽतिपरिणतास्ते अध्वन उत्तीर्णा अपि तत्रैव प्रसङ्गं कुर्युः, ये त्वपरिणामकास्तेषामप्रत्ययो भवेत्, यथा-1 - एते इदानीमेव खबुद्धिकल्पनाशिल्पनिर्मितामेवंविधां स्थितिं कुर्वन्तीति ॥ १०२२ ॥ शिप्यः प्राह — या काचिदध्वनि मैलम्बग्रहणे सामाचारी तामिदानीमेव भणत । गुरुराह
20
अद्धाणे जयणाए, परूवणं वक्खती उवरि सुत्ते । aisgari aोच्छ, रोगाऽऽयंकेसिमा जयणा
5
"एत्थ पढमभंगे जति वि मुद्धं मुद्धेण गच्छति, अणावजंत इत्यर्थः, तो वि हृ ( एक ) । कीस ? दप्पेण अद्धाणं पवज्जति । जं वा अण्णं मूलगुण-उत्तरगुणाणं विराधणं करेति तण्णिप्पण्णं पच्छित्तं । अर्थात् प्राप्तम्सेसेहिं तिहिं भंगेहिं पवज्जितव्वं । भवे कारणं पढमेण वि भंगेण गमेजा ॥ किं तं कारणं ? उच्यते - अतिवे० गधा ॥” इति चूर्णिः ॥
१ द्वाण पविसमाणो ता० ॥ २ गीतार्थास्ते तान्यर्थपदानि त्यक्तानि सन्ति स्मारयन्ति भा० ॥ ३-४ उभयत्रापि भा० पुस्तके प्रलम्बग्रहणे इति नास्ति ॥
10
१०२३ ॥
अध्वनि गच्छतां या प्रैलम्बग्रहणे यतना - सामाचारी तस्याः प्ररूपणमुपरि अध्वसूत्रे इहैवोदेशके वक्ष्यति । अवमेऽपि यः कोऽपि विधिः स सर्वोऽप्युपरि इहैव प्रलम्बप्रकृते वक्ष्यते । अत्र पुनर्यद् ग्लानत्वद्वारं तद् अभिधीयते । तच्च ग्लानत्वं द्विधा – रोग आतङ्कश्च । तयो रोगा- 25 ssaङ्कयोर्द्वयोरपि 'इयं' वक्ष्यमाणलक्षणा यतना ॥ १०२३ ॥
तत्र तिष्ठतु तावद् यतना, रोगाssतङ्कयोरेव कः परस्परं विशेष: : उच्यते-