________________
३२०
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् २ सुणगसरिसा पलंबा, मडतोयसमं दगमफासुं ॥ १०१७॥ यथा शाखापारगस्तथा 'गणी' आचार्यः । यथा चत्वारो मरुकाः 'एवम्' अमुना प्रकारेण 'गच्छवासिनः' साधवः । शुनकसदृशानि अत्र प्रलम्बानि, विकृष्टाध्वादिकारणं विना साधूनामभक्षणीयत्वात्। 'मृततोयसमं' मृतकडेवराकुलोदकतुल्यमप्राशुकोदकं ज्ञातव्यम् , अपेयत्वात् ॥१०१७॥ 5 अथ यदुक्तं "एवमिहं अद्धाणे, गेलन्ने तहेव ओमम्मि ।" ( गा० १०१२ ) तत्राध्वद्वारं विवृणोति
उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेण ।
लहुगा पुण सुद्धपदे, जं वा आवजती तत्थ ॥१०१८ ॥ ऊर्ध्वं दराः पूर्यन्ते यत्र काले तद् ऊर्द्धदरम् , प्राकृतशैल्या उद्दद्दरम् । ते च दरा द्विविधाः10 धान्यदरा उदरदराश्च । धान्यानामाधारभूता दरा धान्यदराः कट-पल्यादयः, उदराण्येव दरा उदरदराः; ते उभयेऽपि यत्र पूर्यन्ते तद् ऊर्द्धदरम् । तथा सुभिक्षं-भिक्षाचरैः सुलभभिक्षम् । अत्र चतुर्भङ्गी-ऊर्द्धदरं सुभिक्षं च १ ऊर्द्धदरं न सुभिक्षं २ सुभिक्षं नोर्द्धदरं ३ नोर्द्धदरं न सुभिक्षम् ४ । तेत्र प्रथमभङ्गे तृतीयभङ्गे वा यद्यध्वानं दर्पण प्रतिपद्यते तदा यद्यपि न मूलोत्तरगुणविराधनादिकं किमप्यापद्यते तदाऽपि शुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम् , कस्मात् ? दर्पणाध्वानं 15 प्रतिपद्यते इति हेतोः । 'यद् वा' आत्मविराधनादिकं यत्रापद्यते तत्र तन्निष्पन्नं प्रायश्चित्तम् ।
अर्थादापन्नम्-शेषभङ्गद्वये दुर्भिक्षत्वादध्वगमनं प्रतिपत्तव्यमिति । प्रथम-तृतीययोरपि भङ्गयोः कारणतो भवेदध्वगमनम् ॥ १०१८ ॥ आह किं तत् कारणम् ? उच्यते
असिवे ओमोयरिए, रायडुढे भए व आगाढे । गेलन उत्तिमढे, नाणे तह दंसण चरित्ते ॥ १०१९ ॥ एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं ।
उवगरणपुव्वपडिलेहिएण सत्थेण गंतव्वं ॥१०२० ॥ विवक्षितदेशे आगाढमशिवमवमौदर्य राजद्विष्टं भयं वा प्रत्यनीकादिसमुत्थम् , आगाढशब्दः प्रत्येकमभिसम्बध्यते, तथा तत्र वसतां ग्लानत्वं भूयोभूय उत्पद्यते, यद्वा देशान्तरे ग्लानत्वं कस्यापि समुत्पन्नं तस्य प्रतिजागरणं कर्त्तव्यम् , उत्तमार्थ वा कोऽपि प्रतिपन्नस्तस्य निर्यापन 25 कार्यम् । तथा विवक्षिते देशे ज्ञानं वा दर्शनं वा चारित्रं वा नोत्सर्पति ॥ १०१९ ॥
१ जत्थ ता० ॥ २ तत्र प्रथमभङ्गे यद्यध्वानं दर्पण प्रतिपद्यते तदा यद्यपि शुद्धं शुद्धन गच्छति न मूलोत्तरगुणविराधनादिकं किमप्यापद्यते तदाऽपि शुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम् , कस्मात् ? दर्पण अध्वानं प्रतिपद्यत इति हेतोः। 'यद्वा' अन्यदापद्यते 'यत्र' मूलोत्तरगुणविराधनादौ तत्र तनिष्पन्न प्रायश्चित्तम् । अर्थादापन्नम्-शेषभङ्गत्रयेऽध्वगमनं प्रतिपत्तव्यमिति चूर्ण्यभिप्रायः । निशीथचूर्ण्यभिप्रायेण तु तृतीयेऽपि भङ्गेऽ. ध्वानं यदि प्रतिपद्यते ततस्तदेव प्रायश्चित्तम्, सुभिक्षत्वात् । द्वितीय-चतुर्थयोस्तु भङ्गयोर्दुर्भिक्षत्वाद्ध्वानं प्रतिपद्यते । प्रथम-सृतीययोरपि भङ्गयोः कारणतो भवेद् अध्वगमनम् ॥ १०१८ ॥ इति भा० पुस्तके पाठः।