________________
15
भाष्यगाथाः १००३-१०] प्रथम उद्देशः ।
अंधकारो पदीवेण, वजए न उ अन्नहा।
तहा दिटुंतिओ भावो, तेणेव उ विसुज्झई ॥१००७॥ अन्धकारशब्दस्य पुनपुंसकलिङ्गत्वाद् यथाऽन्धकारो रात्रौ प्रदीपेनैव 'वय॑ते' विशोध्यते 'न तु' नैवान्यथा, विशोधिते च तस्मिन् घटादिकं वस्तु परिस्फुटमुपलभ्यते; तथाऽत्रापि 'दागन्तिकः' दृष्टान्तग्राह्यः 'भावः' पदार्थोऽन्धकारवदतिगहनोऽपि 'तेनैव' दृष्टान्तेन प्रदीपकल्पेन 5 'विशुध्यते' निर्मलीभवति, विशुद्ध च तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिर्भवतीति दृष्टान्तोपदर्शनमत्र क्रियते । किञ्च सौम्य ! प्रीणिता वयं खवाक्येनैव भवता यद् दृष्टान्तेनार्थप्रसाधनमभ्युपगतम् । अस्माकमपि त्वदीय एव दृष्टान्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति ॥ १००७ ॥ कथम् ? इति चेद् उच्यते--
एसेव य दिलुतो, विहि-अविहीए जहा विसमदोस ।
होइ सदोसं च तथा, कजितर जया-ऽजय फलाई ॥१००८॥ 'एष एव' त्वदुक्तो दृष्टान्तोऽस्माभिः प्रस्तुतसूत्रार्थेऽवतार्यते-यथा विधिना विषमुपभुज्यमानमदोषम् , अविधिना भुज्यमानं तदेव सदोषम् ; तथा कार्ये यतनया फलादीनि आसेव्यमानानि न दोषायोपतिष्ठन्ते, “इयरे" त्ति इतरस्मिन्-अकार्ये यतनया वा अयतनया वाऽऽसेव्यमानानि दोषायोपकल्पन्ते ॥१००८॥ अपि च
आयुहे दुन्निसम्मि , परेण बलसा हिए ।
वेताल इव दुजुत्तो, होइ पचंगिराकरो ॥ १००९॥ यथा केनापि शारीरबलदोद्धतेन परवधायाऽऽयुधं निसृष्टं-मुक्तम् , तच दुर्निसृष्टं कृतं येन तदेव परेण 'हृतं' गृहीतम् , यद्वा अनिसृष्टमेवायुधं परेण "बलस" ति छान्दसत्वाद् बलात्कारेण हृतम् , ततस्तस्मिन्नायुधे दुर्निसृष्टे परेण बलात्कारेण वा हृते सति तस्यैव तेन प्रतिघातः क्रियते । 20 एवं त्वयाऽप्यस्मदभिप्रेतदृष्टान्तप्रतिघाताय विषदृष्टान्त उपन्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन "न सर्वत्र दृष्टान्तः क्रमते" (गा० १००३) इति भवत्प्रतिज्ञायाः प्रतिघातः कृतः, खाभिप्रेतश्वार्थः प्रसाधित इति । तथा केनचिद् मन्त्रवादिना होम-जापादिभिर्वेताल आहूत आगतश्च, स च वेतालः किश्चित् तदीयस्खलितं दृष्ट्वा 'दुर्युक्तः' दुःसाधितो न केवलं तस्य साधकस्याभीष्टमर्थ न साधयति किन्तु कुपितः सन् 'प्रत्यङ्गिराकरः' प्रत्युत तस्यैव साधकस्योन्मत्ततादिलक्षणापकार-25 कारी भवति; एवं भवताऽपि खपक्षसाधनार्थं विषदृष्टान्त उपात्तः स च दुःप्रयुक्तत्वात् प्रत्युत भवत एव प्रतिज्ञोपघातलक्षणमपकारमादधाति स्मेति ॥ १००९ ॥ किञ्च
निरुतस्स विकडुभोगो, अपत्थओ कारणे य अविहीए ।
इय दप्पेण पलंबा, अहिया कज्जे य अविहीए ॥१०१०॥ यथा नीरुजस्य विशेषेण कटुकं विकटुकम्-औषधमित्यर्थः तस्य यो भोगः-उपयोगः, तथा 30 'कारणे च' रोगादौ यस्तस्यैवाऽविधिना भोगः, स उभयोऽपि 'अपथ्यः' अहितः-विनाशकारणं जायते । 'इति' एवं 'दर्पण' कारणाभावेनाऽऽसेव्यमानानि प्रलम्बानि 'अहितानि' संसारवर्द्धनानि . १ चूर्णिकृद्भिर्नेयं गाथाऽऽटता ॥