________________
३१६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रलम्बाधिकारे सूत्रम् २ नाम 'चतुर्थपदे' चतुर्थभङ्गे ग्रहणं तथा 'इतरस्मिन्' भङ्गत्रये कथं ग्रहणं भवेत् ? उच्यतेतत्रापि कारणतो ग्रहणं भवत्येव । यथा च भवति तथोत्तरत्राभिधास्यते ॥ १००२ ॥ अथ पुनरप्याह
पुन्वमभिन्ना भिन्ना, य वारिया कहमियाणि कप्पंति ।
सुण आहरणं चोयग!, न कमति सव्वत्थ दिटुंतो ॥१००३ ॥ पूर्वसूत्रे भवद्भिरभिन्नानि भिन्नानि च 'वारितानि' प्रतिषिद्धानि, कथम् 'इदानीम्' अस्मिन् सूत्रे "कल्पन्ते" इति भणत ? न युक्तं पूर्वापरव्याहतमीदृशं वक्तुमिति भावः । अत्राचार्यः प्राह'शृणु' निशमय 'आहरणं' दृष्टान्तं हे नोदक ! यथा कल्पन्ते । अत्र नोदको गुरुवचनमनाकर्ण्य
दुर्विदग्धतादध्मातः प्रतिवक्ति-आचार्य ! न सर्वत्राप्यर्थे दृष्टान्तः क्रमते, दृष्टान्तमन्तरेणाप्य10 र्थप्रतिपत्तेः ॥ १००३ ॥ तथाहि
जइ दिटुंता सिद्धी, एवमसिद्धी उ आणगेज्झाणं ।
अह ते तेसि पसिद्धी, पसाहए किन्नु दिद्रुतो ॥१००४ ।। यदि दृष्टान्तादर्थानां सिद्धिस्तर्हि 'आज्ञाग्राह्याणां' निगोद-भव्या-ऽभव्यादीनामर्थानामसिद्धिः प्रसज्येत । अथ 'ते' तव आज्ञया तेषां प्रसिद्धिस्ततः 'किन्नु' इति वितर्के 'हुः' एवमर्थे किमेवं 15 दृष्टान्ततोऽर्थसिद्धिः क्रियते ? ॥ १००४ ॥ किञ्चान्यत्
कप्पम्मि अकप्पम्मि य, दिटुंता जेण होति अविरुद्धा।
तम्हा न तेसि सिद्धी, विहि-अविहिविसोवभोग इव ॥१००५ ॥ दृष्टान्तेन यद् यद् आत्मन इष्टं तत् तत् सर्वं यदृच्छया प्रसाध्यते, यथा-कल्पते हिंसा कर्तुं विधिनेति प्रतिज्ञा १, निष्प्रत्यपायत्वादिति हेतुः २, यथा विधिना विषोपभोग इति 20 दृष्टान्तः, अस्य च भावना-यथा विधिना मन्त्रपरिगृहीतं विषं खाद्यमानमदोषाय भवति, अविधिना पुनः खाद्यमानं महान्तमनर्थमुपढौकयति ३, एवं हिंसाऽपि विधिना विधीयमाना न दुर्गतिगमनाय प्रभवति, अविधिना तु विधीयमाना दुर्गतिगमनायोपतिष्ठते ४, यतश्चैवमतो निप्प्रत्यपायत्वात् कल्पते कत्तुं हिंसेति निगमनम् ५। एवं कल्प्येऽकल्प्ये च येन कारणेन दृष्टान्ता अवि
रुद्धा भवन्ति, कल्प्यमप्यकल्प्यम् अकल्प्यमपि कल्प्यं यदृच्छया दृष्टान्तबलेन क्रियत इति भावः, 25 तस्माद् नैतेभ्यो दृष्टान्तेभ्योऽर्थानां सिद्धिर्भवति । गाथायां पञ्चम्यर्थे षष्ठी । विधिना अविधिना च विषोपभोग इवेति ॥ १००५ ॥ इत्थं नोदकेन वपक्षे स्थापिते सति सूरिराह
असिद्धी जइ नाएणं, नायं किमिह उच्यते ।
अह ते नायतो सिद्धी, नायं किं पडिसिज्झती ॥१००६ ॥ यदि 'ज्ञातेन' दृष्टान्तेनार्थानामसिद्धिस्ततस्त्वया 'ज्ञातं' विषदृष्टान्तः इह 'किमुच्यते' किमे30 बमभिधीयते ? । अथ 'ते' तव 'ज्ञाततः' दृष्टान्ततः सिद्धिः ततोऽस्माभिरुच्यमानं ज्ञातं किं प्रतिषिध्यते ? ॥ १००६ ॥ किञ्च
१ "कीरइ हु किन्नु दिद्वैता” इति पाठानुसारेण वृत्तिकृता वृत्तिविहिता, नासो पाटः कस्मिंश्चिदपि पुस्तकादशें लभ्यत इति ॥ २उच्चते ता० ॥